SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् भक्तिश्चेजिनशासने जिनपतौ सजायते निश्चला तत्कृत्येषु बलात् प्रवृत्तिरतुला स[६५--१]सम्पद्यते देहिनाम् । भक्तः किङ्करतां करोति दिशति स्वं स्वापतेयं गुणा नादत्ते पिदधाति दूषणगणं प्राणानपि प्रोज्झति ॥४५॥ चैत्यस्य कृत्यानि विलोकयन्तो - ये पापभाजो यदि वा यतीनाम् । कुर्वन्त्युपेक्षामपि शक्तियुक्ता मिथ्यादृशस्ते जिनभक्तिमुक्ताः ॥४६।। प्रारम्भोऽप्येष पुण्याय देवाघुदेशतः कृतः । सामग्र्यन्तरपातित्वाज्जोवनाय विषं यथा ॥४७॥ भिन्नहेतुक एवायं भिन्नात्मा भिन्नगोचरः । भिन्नानुबन्धस्तेन स्यात् पुण्यबन्धनिबन्धनम् ॥४८॥ लोभादिहेतुकः पापारम्भो गेहादिगोचरः। पापानुबन्धी सन्त्या[६५-२]ज्यः कार्योऽन्यः पुण्यसाधनः ॥४९॥ धर्मारम्भरतस्य रज्यति जनः कीर्तिः परा जायते ... राजानोऽनुगुणा भवन्ति गुणिनो गच्छन्ति साहाय्यकम् । चेतः काञ्चननिर्वृतिं च लभते प्रायोऽर्थलाभोऽपरः ___पापारम्भपरादनर्थविरतिश्चेति प्रतीता भिदा ॥५०॥ न मिथ्यात्वात् प्रमादाद्वा कषायाद्वा प्रवर्तते ।। श्राद्धो द्रव्यस्तवे तेन तस्य बद्धो(न्धो)ऽस्ति नाशुभः ॥५१॥ [१६-१]शुभः शुभानुबन्धी तु बन्धच्छेदाय जायते । पारम्पर्येण यो बन्धः स प्रबन्धाद् विधीयते ॥५२॥ द्रव्यस्तवे भवति यद्यपि कोऽपि दोषः ___ कूपोपमानकथितोऽतिलघुस्तथापि । कृत्यो गुणाय महते स न किं चिकित्सा ___ क्लेशो गदापगमनाय बुधैर्विधेयः ॥५३॥ लोकोत्तरे गुणगणे बहुमानबुद्धिः शुद्धिः परा स्वमनसो मनुजोत्तमत्वम् । स्याद् धर्मसिद्धिरखिले जगति प्रसिद्धिः सिद्धिः क्रमेण जिनपूजनतो जनानाम् ॥५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy