SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् अन्नादिदानेऽथ भवेदवश्यं प्रारम्भतः प्राणिगणोपमर्दः । तस्मान्निषिद्धं ननु नेति युक्तं यूकाभयान्नो परिधानहानम् ॥२९॥ पापाय हिंसेति निवारणीया - दानं तु धर्माय ततो विधेयम् । दुष्टा दशानामुरगादिदष्टा यैवाङ्गुलो [६३-१] सा खलु कर्तनीया ॥३०॥ कृष्यादि कृर्वन्ति कुटुम्बहेतोः पापानि चान्यानि समाचरन्ति । देवादिपूजादि विवर्जयन्ति हिंसां भणित्वेति कथं न मूढाः ॥३१॥ सन्त्यज्य पूज्यं जननीजनादि ये दुष्टचेटीमिह चेष्टयन्ति । तेषां भवन्तोऽपि भवन्ति तुल्या ___ सक्ता गृहे देवगुरुंस्त्यजन्तः ॥३२॥ अथापि नारम्भवतोऽपि युक्तं प्रारम्भणे धर्मनिमिचमत्र । द्रव्यस्तवो हन्त गतोऽस्तमेवं ध्वस्तः समस्तो गृहमेधिधर्मः ॥३३॥ द्रव्यस्तवप्रधानो धर्मो गृहमेधिनां यतोऽभिदधे । द्रव्यस्तवस्य विरहे भवत्यभावस्ततस्तस्य ॥३४॥ [६३-२] युक्त्यागमाननुगतं सङ्गतमुपगन्तुमीदृशं न सताम् । द्रव्यस्तवभावस्तवरूपो धर्मो जिनरुक्तः ॥३५॥ जन्माभिषेकादिमहं जिनानां व्याख्यानधात्रीरचनां च चित्राम् । कुर्वन्ति सर्वे त्रिदशाधिपाया नन्दीश्वरादौ महिमानमुच्चैः ॥३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy