SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् । - जैनं प्रभावयति शासनमङ्गिसार्थ यो बोधयत्यनुपमः कृपया परीतः । त्यक्तक्रियः कथमसौ न कथं तपस्वी स्वाध्यायतो न हि तपोऽस्त्यधिकं न कृत्यम् ॥३३॥ स(अ)ज्ञानि(न)तो मूर्खमतीव साधु यः कष्टचेष्टानिरतं स्तुवीत । मार्गज्ञमन्धं स वदेत् सुदृष्टेः । समः समाने हि समेति रागम् ॥३४॥ एनांसि योऽहिरजसाऽपि निहन्ति वाचा मोहं व्यपोहति दृशाऽपि पुनः पुनाति । सङ्गेन दुःखमपनीय तनोति सौख्यं ज्ञानी सतां स महनीयमहानुभावः ॥३५॥ [४६-१] ज्ञाने सति भवत्येव दर्शनं सहभावतः । तेनोभयमिदं पूज्यं विभागस्तु विशेषतः ॥३६॥ शुश्रूषा धर्मरागो जिनगुरुजनयोः पूजनाधाभियोगः ___ संवेगो निर्विदुच्चैरसमशमकृपाऽऽस्तिक्यलिङ्गानि येषाम् । शङ्काकाङ्क्षाघभावो जिनवचनरते धार्मिके बन्धुबुद्धिः श्रद्धानं सप्ततत्व्यामिति गुणनिधयः सदृशस्तेऽपि पूज्याः ॥३७।। दर्शनं प्रथमकारणमुक्तं मुक्तिधामगमने मुनिमुख्यैः । ज्ञानमत्र सति तावदवश्यं __सम्भवेदपि न वा चरणं तु ॥३८॥ इदमशे[४६-२]षगुणान्तरसाधनं सकलसौख्यनिधानमबाधनम् । कुगतिसङ्गतिनिश्चितवारणं निखिलदारुणदूषणदारणम् ॥३९॥ अपगतोऽपि मुनिश्चरणाद् दृशि स्थिरतरः सुतरां परिपूज्यते । शुभमतेर्महतां बहुमानतः परिणतिश्चरणेऽपि भवेदिति ॥४०॥ . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy