SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् पुरन्दरः पुरन्दारैरुदारैः सममामरीम् । अधिष्ठितो यथा मर्तु तथा मर्त्योऽपि नेच्छति ॥४३॥ अमेध्यमध्ये कोटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा तुल्यं मृत्युभयं द्वयोः ॥४४॥ दरिद्रो दुर्भगो दुस्ः सदाधिव्याधिबाधितः । पराश्रितः पराभूतः प्राणी प्राणितुमिच्छति ॥४५॥ येन ये[२१ - २] न प्रकारेण प्राणिनां जायते व्यथा । तं तं दूरेण धर्मार्थी वर्जयेद् दुर्जनं यथा ॥ ४६ ॥ सकलरोगनराविकला जना "जनितसज्जनमानसरञ्जनाः । यदतुलं विलसन्ति चिरायुष स्तदखिलं खलु जीवदयाफलम् ॥४७॥ रति रतेरुत्तमरूपसम्पदा सदा नुदन्त्यः सुखसम्पदां पदम् । दयानुभावेन विभूतिभाजनं भवन्ति रामाः सुभगाः शुभाङ्गजाः ॥ ४८ ॥ कन्दर्प नष्टदर्पं प्रविदधदधिकं देहकान्त्या लसन्त्या लोकानां नेत्र पार्न इव रज [ २२ - १]नीनायकः पीयमानः । मर्त्यः पुत्रैः कलत्रैर्विरहविरहितो मोदते दोर्घकालं कल्पः कल्याणहेतोरभयवितरणात्तारतारुण्य पुण्यः ॥ ४९ ॥ निर्व्यासङ्गमनङ्गतापरहिता यत् प्रेयसीसङ्गताः श्रीशृङ्गाररसैकसागरगता निश्चिन्तचित्ता नराः । नीरोगा जरसा विमुक्तवपुषो जीवन्ति पल्यत्रयं Jain Education International तन्मन्येऽभयदाननिर्मललसच्चिन्तामणेश्चेष्टितम् ||५० || अनुत्तरनिवासिनो [२२ - २] यदतराणि भूयांस्यहो सदा सुखमनुत्तमं शिवसुखोपमं भुञ्जते । अचिन्त (न्त्य) मवपुः क्रियं विगतपारवश्यव्यथा व्यतीतविषयस्पृहास्तदतुलं दयायाः फलम् ॥५१॥ For Personal & Private Use Only १५ www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy