SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 619 परस्त्री मन्दरूपाऽपि विकरोत्येव मानसम् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥२ अथ दृतिप्रेषणम् । 620 अब भू(भौ)मदिनं सत्यमसत्य(१)प्रस्तवस्तव । तथाऽपि दूति गन्तव्यं नातः कालमपेक्षते ॥१ अथ पृथ्वी। 621 उच्छन्नविषयमामा स्थानादुच्चलितद्विजा । सर्वत्र वलिभिः कान्ता वृद्धव युवति(१) क्षितिः ॥१ 622 श्वःश्वःपापिष्ठदिवसा पृथिवो गतयौवना । ___ अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ॥२ अथ सोमः। 653 शिरसा धार्यभाणोऽपि सोमः सोमेन शंभुना। तथाऽपि लघुतां धत्ते कष्टं खलु पराश्रयः ॥१ 624 वर्तते येन पातङ्गिः षण्मासान् द्वौ च वत्सरौ । राशिः स एव चन्द्रस्य न याति दिवसत्रयम् ॥२ 625 क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम् ॥ उपैति मित्राधच्चन्द्रो युक्तं तन्मलिनात्मनः ॥३ । 626 इयता किं न पर्याप्तं कान्तत्वं शशलाञ्छनः (!)। न संतप्ताऽपि नलिनी यद्विश्वासमुपागमत् ॥४. अथ नगरम् 627 भूमयो बहिरन्तश्च नानारामोपशोभिताः।। कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥१ 628 भ्रमेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । यत्र कोपैः कृता स्त्रीणामप्रसादार्थिनः प्रियाः ॥ २ 629 रत्नभित्तिषु संक्रान्तप्रतिबिम्बशतैर्वृतः । ज्ञातो लकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः॥ ३ .. । काव्यादर्श । २, ६०२] 619 ख प्रतौ न विद्यते । 621 प० उच्चलिता द्विजा । प० वलिभिः कान्ता । ख• युवतिस्सदा ॥ 625 . . 'प० समीपस्थं ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy