SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ६४ महाकविश्रीरामचन्द्रविरचित गन्धमूषिका - सार्थवाह ! मा भैषीः । अकुतोभयो भूत्वा प्रथय यथावस्थितां कथाम् । वैश्रवणः - अहमनेन मकरन्देन पक्षिभावनरकादुद्धत्य बाढमुपकृतः । मत्पीत्या च मनोरम । भगाती प्रसादिता । भगवत्या च विवाहसूत्रणामुपदिश्य स्थापनाव्याजेन मकरन्दोऽयं मह्यमुपनीतः। मया च कादम्बपतिमामपनीय मकरन्दो निवेशितः । अतः परं यदभूत् तद् भवतामपि प्रत्यक्षम् । तदत्र कर्मणि भगवती नापराध्यति, न च मनोरमा, वैश्रवण एव केवलम् । चित्राङ्गदः - महापुरुषकृतज्ञचूडामणेर्भवतोऽपि कोऽपराधः ।। गन्धमृषिका - साधु कुमार ! साधु । महतामयमेव वाचां विक्रमः । यथा भावि पुरा वस्तु तथा सर्वस्य वृत्तयः । इत्यवेत्य महात्मानो नापकारिषु रोषिणः ॥१६॥ (पुनश्चन्द्रलेखां प्रति) वात्याभिर्वा प्रजाभिर्वा प्रभाभिर्वा खरत्विषः । भवेद्यथा तथा ग्रीष्मे सरसः शोषितां भ्रमः ॥१७॥ यौवने सर्वत्रापि दुहितरो मातुरनायत्ताः । ततश्चित्राङ्गदे मकरन्दे वा जामातरि कस्ने विशेषः । गुणगोत्राधिक्यभाषणं पुनरनुचितम् । पुण्ये गुणश्च गोत्रं च न पुण्यं गुणगोत्रयोः। तद्विचारस्ततः पुंसि पुण्यशालिनि मत्सरः ॥१८॥ मल्लिकासंभोगभाग्यं मकरन्दस्य न चित्राङ्गदस्य । ततः कृतं विषादेन । चन्द्रलेखा - भगवतीसूत्रिते कर्मणि को विपादः। . गन्धमृषिका - (मकरन्दं प्रति) कि ते भूयः प्रियमुपकरोमि । मकरन्दः - अतःपरमपि प्रियमस्ति ? । तथापि भगवतीप्रसादानां पर्याप्तकामः। गन्धमूषिका - (सहर्षम् ) जिनपतिपदप्रसादान्न(न्नु) रामचन्द्रांशुकुन्ददलविशदा-। मामाद्य यशोलक्ष्मी परां स्वतन्त्रां चिरं भूयाः ॥१९॥ (इति निष्क्रान्ताः सर्वे) ॥ पष्ठोऽङ्कः ।। ॥ समाप्तमिदं मल्लिकामकरन्दाविधानं नाम नाटकम् ॥ कृतिरियं श्रीहेमचन्द्राचार्यचरणसुश्रूषाभिरतस्य प्रवन्धशतकर्तुः श्रीरामचन्द्रस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy