SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्गः । (ततः प्रविशति सिद्धायतनस्थो मकरन्दः । ) मकरन्दः – ( साश्चर्यम् ) महाव्यसन सम्पातेऽपि दुस्त्यजाः प्राणिनामसवः । यदिदानीं मल्लिकातुल्याकारं तापसकुमारं दृष्ट्वा पुनर्जीवितुमभिलषति मे हृदयम् । इष्टैरपि वियुक्तस्य क्षपितस्यापि शत्रुभिः । निर्लुनावयवस्यापि न मृत्युः प्राणिनः प्रियः ॥ १ ॥ तदहमिदानीमपहाय महाक्लेशानारम्भ-परिग्रहान्, आधाय मनः समाधिम्, तस्यैव तापसकुमारस्याभ्यर्णे व्रतमाचरामि येन परलोकगतस्यापि मे मल्लिका प्रिया सङ्घटते । (विमृश्य) पुनः कथं चन्द्रलेखा मामभिक्रुध्यति ? । निश्चितमियं मल्लिकां ब्रह्मदत्तभवनादपहृतवती । तावदयमर्थों मागधिकायाः स्फुटो भविष्यति । ( नेपथ्ये ) 'हामियंकवणे ! हा सरोजनयणे ! हा पडिवन्नवच्छले भट्टिदारिए ! कहिं सि दाणिं ? देहि मे पडिवयणं । हा निकरुणे चंदले हे ! केरिसो एस दे निययम्मि . अवच्चम्मि पच्चूहकरण संरंभो ? | मकरन्दः - कथमेषा मागधिका प्रलपति ? | ( प्रविश्य ) मागधिका - 'अज्ज मयरंद ! पिच्छ मल्लियाए भट्टिदारियाए कीदिसं संवृत्तं ? | मकरन्दः ( ससम्भ्रमम् ) मागधिके ! हर्ष-विषादयोरन्तरे तिष्ठामि । मल्लिकासन्नामश्रवणात् प्रहृष्टोऽस्मि । अपायशङ्कया पुनर्विषण्णोऽस्मि । तत् कथय मित्र क्वापि मल्लिकाऽस्ति ? | मागधिका - एसा मल्लिया पंचसेलाओ अवहरिय गुलियापओगेण पुरिसरूवं काऊण लयाहरे चंदलेहाए विमुक्का चिट्ठदि । १ हा मृगाङ्कवदने ! हा सरोजनयने ! हा प्रतिपन्नवत्सले भर्तृदारिके ! कुत्र असि इदानीम् ? देहि मे प्रतिवचनम् | हा निष्करुणे चन्द्रलेखे ! कीदृश एष ते निजे अपत्ये प्रत्यूहकरणसंरम्भः ! | २ आर्य मकरन्द ! पश्य मल्लिकाया भर्तृदारिकायाः कीदृशं संवृत्तम् ? । ३ एषा मल्लिका पञ्चशैलाद् अपहृत्य गुटिकाप्रयोगेण पुरुषरूपं कृत्वा लतागृहे चन्द्रलेखया विमुक्ता तिष्ठति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy