________________
पद्मसुन्दरविरचितं ज्ञानचन्द्रोदयनाटकम्।
प्रथमोऽङ्कः ।
॥ श्रीजिनाय नमः ॥ नमः सदसदव्यक्तविश्वरूपैकमूर्तये । स्वसंवित्तिप्रकाशाय सहजानन्दशालिने ।।१।। अविकलचिदानन्दैकान्तस्वभावविजम्भितप्रशमितपरद्रव्याकाङ्क्षानुषङ्ग तरङ्गितम् । जयति जगति स्वैरोल्लासिप्रभाभरनिर्भरव्यतिकरलसल्लीलालीलायितं परमं महः ॥२॥ सकलपरमब्रह्मण्येकात्मतां गतवत्यपि स्वरसरसवत्ताभिः स्वैर समुल्लसतेतराम् । तनुमितिरिति प्रेक्षा प्रेक्षावतां स्फुरति स्फुटं स स्वल परमः प्राचां वाचामुदञ्चति किञ्चन ॥३॥ परमसहजानन्दोन्भज्जत्त्रिलोकसुखातिगे ललितललनालीलोन्मीलद्विलासिविलासता । उदयति कुतः साक्षादन्विष्यमाणपरात्मनि किमिव विलुलत्ताराकारा विभान्ति नभस्वति ॥४॥ निरुपमरसोद्गारस्तावन्न यावदनुतः परपरिणतेरुद्यभावः स्वभावगुणच्युतः । सकलविमलाखण्डज्ञानप्रकाशतया स्वयं निजमहिमनिध्वस्तध्वान्ते चकास्ति चकासति ॥५॥ विशदसहजज्ञानश्रद्धावबोधविचक्षणः सकलुषतया पुण्याकाङ्क्षाकलङ्कविलक्षणः । परमसमतामेकाग्रत्वेऽमलामवलम्बयन्नुचितपरमं हेयाहेयप्रपञ्चमुदञ्चति ॥६॥ व्यवहारनयाधीनमिति त्रैधं विभावयन् । परमार्थनयेनैकमालम्ब्य चिति चेतये ॥७॥