________________
कालिदासीयकाव्यप्रसङ्गे "निष्यन्द"-शब्दस्य षत्वविचारः
विश्वनाथ भट्टाचार्यः कालिदासीयमेघदूतम्य देवगिरिवर्णनोपन्यासे "त्वनिष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः.... शीतो वायु" रित्यत्र "निष्यन्द" शब्दप्रयोगो दृश्यते । अस्मिन् शब्दे मूर्धन्यषकारपाठः सर्वैः सम्पादकैराहतः । वल्लभदेव-मल्लिनाथ चारित्रवर्धन-परमेश्वरादीनां मुद्रितटीकाग्रन्थेष्वपि षत्वमभ्युपेतम् ।
___ एवं "[स (=कुशः)] सधातुनिष्यन्द इवाद्रिराज" इति रघौ, "तोयाधारपथाश्च वक्ललशिखानिष्यन्दरेखाङ्किता' इति शाकुन्तलस्य काश्मीरीयपाठे' च षत्वं स्फुटम् ।
किं च "कनकरसनिष्यन्दी...सानुमानालोक्यत" इति शाकुन्तले, “(संसत्) हिमनिष्यन्दिनी प्रातर्निवातेव वनस्थली'' इति रघौ चापि षत्वं लक्ष्यते ।
परन्तु "निष्यन्द"-शब्दे षत्वं नैव सहते वामनः । तन्मते प्रकृते पत्वं चिन्त्यम्-ग्रहणकशास्त्राऽदर्शनात् , कस्कादिपाठस्यापि च सन्देहायतनत्वात् ।
किंतु नेदं वामनमतं विचारचारु । “अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु" इति सूत्रेण अप्राणिकतृकस्थले पाक्षिकषत्वसिद्धे द्यः पक्षः ।
अधि च, इण उत्तरस्य विसर्गस्य षत्वविधायकस्य कस्कादिगणस्य नेह प्रसक्तिः । स च गणः सर्पिष्-कुण्डिकादिषु षत्वसाधकः । “निष्यन्द"-शब्दे तु का नाम विसर्गचिन्तेति न द्वितीयः ।
अतो "निष्यन्दो" "निस्यन्द" इत्युभयमेव साधु ।
एवं सति 'तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य...(दिलीपनन्दन)” इति "[सा (= सुमित्रा)] भ्रमरी वारणस्येव मदनिस्यन्दरेखयोरिति, “(आनन्दनः शिशिरो बाष्पः) हिमादिनिस्यन्द इवावतीर्ण" इति च रघौ दन्त्यपाठः संगच्छत इति सर्व सुस्थमिति शम् ॥ (१) अन्यत्र तु षत्वं न लक्ष्यते ।