SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पद्मसुन्दरविरचितं परस्परमसंभवद् भवति तद्गुणत्वं गुणि ध्वनन्यतरमन्तरा गुणमसंभवस्तद्वताम् । ततो गुणविशेषतो गुणिविशेषता चेष्टते स्वतोऽधिगमयत्ययं न परभावमादित्सति ॥१६॥ जवो मूर्ती धर्माधर्मा विहायः सङ्ख्यातीतैः स्वप्रदेशैरभिन्नाः । कालाणुः स्यादप्रदेशस्तु तावभात्रत्वेनानेकरूपो न तस्मात् ॥१७॥ शुद्धाकाशोऽनन्तरूपप्रदेशो लोकाकाशापेक्षया सप्रदेशः । कालाणोस्तु द्रव्यजातप्रदेशं व्याप्याद्वैतं तस्थुषः सप्रदेशः ॥१८॥ योऽभिव्याप्तो येन कालाणुनायं शुद्धाकाशस्य प्रदेशस्तमेव । मूर्ताणुश्चातिकमन् मन्दगत्या तन्मात्रः स्याद् द्रव्यकालस्य सूक्ष्मः ॥१९॥ पर्यायोऽयं तस्य स व्यञ्जकोऽर्थो द्रव्यं प्रादुर्भावविध्वंसहोनम् । प्रादुर्भूतध्वंसरूपः समन्तात् पर्यायोऽयं सूक्ष्मकालस्य संज्ञा ॥२०॥ आकाशस्य प्रदेशानामतिक्रमणतः समम् । साधयेन तदंशत्वं कालाणुस्तीव्रगाणुतः ।२१॥ . विभागः संभवत्येव नभोद्रव्ये प्रदेशतः । अविभक्तेऽपि सर्वेषां द्रव्याणां स्थानदानतः ॥२२॥ यधशा न स्युरित्थं चेन्मतिः स्याद गलोद्वयम् । प्रसार्य कथ्यतामेकमने क्षेत्रमस्ति किम् ।।२३॥ १६=तदी २.४१-४२ । १७=प्रसा २.४३, तदी २.४३ । १८-तदी २.४३ । १९-२१=तदी २.४७। २२-२७=तदी २.४८ ।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy