________________
पञ्चमोऽङ्कः । निष्क्रान्तश्चिद्विलासः अथ शब्दन्नहाविशेषविलासः प्रविशति ।
कथञ्चिद् द्रव्येषु प्रतिचरित सामान्यविशदप्रबोधादुर्भूतस्तदितरगुणस्तत्प्रगुणितः । विशेषप्राग्भारः समवतरदुच्छिद्य परतामिहैकत्वव्यक्तिर्निजगुणनिरुक्ति निगमयन् ॥१॥ सर्वैकत्वनिबन्धनं विचरते द्रव्यत्वसामान्यता जीवाजीवतया विवेचितशा भेदो न वा भिद्यते । तभेदश्चिदचिवयस्य च भिथः स्याच्चेतनाचेतनव्यक्तीकारपरायणोऽभ्युदयते सोढा विशेषः परान् ॥२॥ धर्माधर्माकाशकालागुरूपिद्रव्ये पञ्च व्यक्तयः सन्ति भिन्नाः । एका जीवव्यक्तिरत्यन्तभिन्ना संविन्मात्रा चेतनद्योतमाना ॥३॥ भिन्नाभिन्नाभावभावव्यपाया नो भिद्यन्ते जातु जातेरभेदात् । शुद्धः शुद्धस्वस्वरूपप्रकाशव्यासक्तोऽयं चेतनापुण्यपुञ्जः ॥४॥ उत्पादस्थितिमङ्गभेदरचना जीवे तथा पुद्गले सघातादथ भेदतो द्वयमिदं भावक्रियावत् तथा । शेषाणां परिणाममात्रभवनाद् भावः परिस्पन्दनाकारस्फारतरक्रिया प्रकृतितो द्रव्यास्तिताया बलात् ।।५।। मूर्ता निजपरिस्पन्दभिन्नाः सङ्घातसंहताः । भेदेनोत्पद्यमानादिक्रियावन्तो भवन्ति यत् ॥६॥ जीवा निजपरिस्पन्दनवकर्मादिपुद्गलैः । भिन्नाः सङ्घातमापन्नाः क्रियावन्तस्त्रिधा मताः ॥७॥ लिङ्गानीह गुणास्तदाश्रयतया यैर्लिङ्गचते गम्यते द्रव्यं तन्न गुणा गुणास्तदपि नो द्रव्यादतभाविनः । लिङ्गत्वं खलु लिङ्गलिङ्गिविवृतौ संसिद्धचति स्वेच्छया
जीवाजीवतदाश्रया ननु गुणा यैव्य॑ज्यते द्रव्यता ।।८।। १ = तदी २. ३५ (उत्थानिका) । २-४-तदी २.३५ । ५-७-प्रसा २.३७, तदी २.३७ । ८-प्रसा २.३८, तदी. २.३८ ।