SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः अथ जीवो द्विपात्रीभूयावतरति । बन्धः प्रविशति । परिच्छेद्यं यद्वा परिणमति विज्ञानजलधिने तज्ज्ञानं तस्य स्फुटमविकलं क्षायिकमतः । विधत्ते कमैवासहसहजविज्ञानविकलश्चरित्रं तद्वन्ध्यं कृतमिव गजस्नानमभितः ॥१॥ द्रव्यप्रत्ययसन्ततेरवतरन्मोहाज्ञताविभ्रमभ्रान्त्याऽनादिभवोच्छितेरनुसरद्भावानुबन्धोदयः । सम्यग्दृष्टिरसदृशामिव न तद्भावानुवर्ती क्षणं तबन्धोऽपि निरागसामिह कुतः स्यादप्यशुद्धात्मनाम् ॥२।। अन्तरेण मनसा न विकारस्तं विनाऽवतरति क च बन्धः । स्वानुभूतिरतिरञ्जितवृत्तेनिमस्य निरुणद्धि नवीनम् ॥३॥ अर्हतां ध्वनिरनुद्तमेको निस्सरत्यभिनिरीहितवृत्तिः । गर्जनं स्वत इवाणुविशेषादम्बुवर्षणमिवाम्बुधराणाम् ॥४॥ यद्ययं शुभतदुत्तरभावान्नाश्रवत्यनुभवैरनुवेलम् । आजवंजवविनाभवनात् तन्मुक्त एतदपि युक्तिवियुक्तम् ॥५॥ अथ द्विपात्रोऽप्येकपात्रीभूयाघतरति परमात्मा । तत्स्वभाव-परभाव-विभावै. रात्मनः स्वजनितैः परिणामैः । मुक्ति-बन्धमनुसृत्य सदाऽयं स्वानुभूतिमभिनन्दति शुद्धः ॥६॥ सेतरेतरविरोधविधानध्वंसि विस्फुरति निर्व्यवधानम् । केवलं कवलिताखिलकालव्याप्तिरूपमनिरूपितरूपम् ॥७॥ २-४-तदी १. ४४-४५ । ५ = तदी १.४६ । ७-८ = तदी १.४७ ।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy