SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ গল্পীজীবলিলমল तव प्रमावस्तनुभूरजल्पतोऽ प्यनल्पसङ्कल्पितरोपतोषणः । त्वदङ्गणाने युवराजवजवाद यात्रामिषाल्लोठयते जगत्त्रयीम् ॥३॥ आज्ञा परेषां न रराज निर्जरे श्वरादिकानां प्रभवेत् सचेतने । अचेतनैरप्यनलाम्बुविद्युदा - दिकैस्त्वदाज्ञा तु न लछयतेऽद्भुतम् ॥४॥ स्यादैहिकानेकपदार्थसिद्धये . श्रद्धा जिनाधीश ! यथा प्रथावती । तथाऽत्रपारत्रिकशर्मनिर्मिता वुपायभूता त्वयि सा ममाऽनिशम् ॥५॥ पुरः स्फुरद्धपजधूमडम्बरम् चिरं सृजन्तोऽपि तवेह देहिनः । स्वमुज्जज्वलैः पुण्यदलैबरीभ्रति .त्रिलोकमात्मीययशोभिरप्यहो । ॥६॥ न राजयक्ष्मादिकदूषिताः स्युः नरा जयक्ष्मादिकराज्यऋद्धाः । प्रभावतस्ते रवितोऽतिशायि प्रभावतस्तेन न के स्तुयुस्त्वाम् ॥७॥ तेजोभिर्विजितो रविः सह परीवारेण बद्धाञ्जलिः । पादाने तव सेवनां विरचयत्येकाग्रचित्तः सदा ॥ तत् किं तस्य सुतः शनिस्तनुभवा भद्रा तनूजस्तथा । कोनाशस्तदधिष्ठिता च भरणी त्वद्भाक्तिकां(कानां) पुरः ॥८॥ नाणद्याणकनन्दिवर्द्धनपुरश्रीहस्तिकुण्डीपुरी श्रीमदब्राह्मणवाटकेषु बृहति ग्रामे तथा जीवति । श्रीवीरे क्षितिपालमुख्यविपुलप्रासादसंस्थापिताः तन्मूर्तीः गुरुसोमसुन्दरमहः कीर्तिनमाम्यन्वहम् ॥९॥
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy