________________
चन्द्रदृतकाव्यम्
क्व ? भवति त्वयि । तथोक्ता उत्कण्ठा मम भवति । किं कुर्वत्याः ! निशम यन्त्या आकर्णयन्त्याः । कम् निध्वानं शब्दम् । कस्य ? अन्यस्यापि । किं कुर्वतः ! अभिपततः आगच्छतः । क्व ? बहिः गृहादिति गम्यते । तथा विहाय:श्रियम् आकाशलक्ष्मी ताम् अवेक्ष्य दृष्ट्वा । क्व ? इह शरत्काले किम् ! किमर्थम् त्वमास्से त्वं तिष्ठसि । किं कृत्वा ? विहाय त्यक्त्वा । किं तत् ? 'प्रियत्वम् बन्लभवम् । पाठान्तरम् विकृतमतेरिति । अत्र च व्याख्या । इति पूर्वप्रकारेण विकतमनेविकारापन्नबुद्धेमम का मुत् ? को हर्षो नैव काचिद इत्यर्थो नजदयस्य प्रकृतार्थत्वात् ॥२१॥
कतिपयदिनमध्ये संजनेऽक्षामतन्वा
यदि निपतितक्त्या सन्ततं क्षामतन्वा । सह यदि न तया ते कर्तुमिच्छा ततोऽयं
से नु सपदि सखाऽहन् श्रीगुणाच्छाततोयम् ॥२२॥ इति विविधवचोभिश्चन्द्रमा यामवत्यां
गदित उदयमानो दीनमायामवत्याम् । कथयितुमिव तस्मै तूर्णमध्वन्यबध्वा
सरति रतिमिलाभृत्यम्बराध्वन्यबध्वा ॥२३॥युग्मम् ।। चन्द्रमाः शैशी सरति । किं कर्तुमिव ! कथयितुमिव । कस्मै ! तस्मै प्रियाय । क्व ? अम्बराध्वनि आकाशमागें । किं कृत्वा ! अबध्वा अकृत्वा काम् ? रति प्रोतिम् । क्व ? इलाभृति पर्वते अस्ताचले उदयाचले बा । कथं सरति ? तूर्णम् शीघ्रम् । कथम्भूतश्चन्द्रमाः ! गदित उक्तः । कया ! अध्यन्यवध्या पथिकमायेंया । कस्याम् ? यामवत्या रात्रौ । कीदृश्याम् ? आयामवत्याम दीर्घायाम् ? कीदृशः ? उदयमान: उदयं गच्छन् । कथम् गदितः ! दीनम दैन्ययुक्तम् यथा भवति । कैर्गदितः ! विविधवचोभिः नानावचनः । कथम् ? इति पूर्वोक्तैः हे श्रीगुणाच्छात ! श्रीगुणैः शोभागुणैर्दाक्षिण्यादिभिः अच्छातः अकृशः श्रीगुणा च्छातस्तस्यामन्त्रणम् । सपदि झटिति ततस्तस्मात् सोऽयं सम्धा नु निश्चितं तोयं जलं अहन् अगच्छत् गतो यदि ते तव नेच्छा न वाञ्छा । कि कर्तुम् ! कर्तुम् विधातुम् । क्व ? सनने सङ्के । कया सह ! तया सह | !
१. वाल्लभ्यम् सू० ॥ २. ननु दे० ॥ 3. चन्द्रः सू० ॥