________________
चन्द्रदूतकाव्यम् स्फुरदमलशिलायां वर्तिकान्तेन सारं
यदभिलपति बिम्वं तावकं तेन साऽरम् । नयति दिनमुपां च त्वत्कृतानीह माना
हितविरहितचेतास्सद्रतानीहमाना ॥१७॥ स्फुर० । सा तेव भार्या अरं शीनं नयति गमयति । किं नद? दिनं दिवसं तथोषां च रात्रिं च । केन नयति ! ते तव बिग्वेन । यद बिम्बम अभिलपति । कीदृशम् ? सारं प्रधानम् । तथा तावकम् भवदीयम । कम्याम् । स्फुरदमलशिलायाम् । देदीप्यमाननिर्मलपदि । केन लिम्निम् ! वर्तिकानेन कृर्चिकापर्यन्तेन । कीदृशी ? ईहमाना अभिलषन्ती। कानि ! सद्रतानि शभिनसुरतानि । कीदृशानि ? त्वत्कृतानि भवद्विहितानि ! क ! इह शरत्काले । कथंभूना ! मानाहितविरहित चेताः मानाहितम् अह कारयुक्तम् । मानेन या कृत्वा महिनं.मी. नाननुकूलं, विरहितं-त्यक्तं चेतो-मनो यया साऽहंकारत्यक्तचित्ता ||१|| कुचकलशविभूषा जन्यते हा रजन्या
महनि च ननु तस्याः सन्ततं झारजन्या । नयनविगलदौमौक्तिकैर्वा मतायाः
सुभग ! तव नताङ्गयाः सत्खनेर्वामतायाः ॥१८॥ कुच० । हे सुभग ! तव ते । नताशयाः तन्वङ्गायाः कृशदेहायाः तस्याः भार्यायाः । ननु निश्चितं सन्ततं निरन्तरं जन्यते क्रियते । काऽसौ ! कुचकलचविभूषा स्तनकुम्भालड्कृतिः । कीदृशी ! हारजन्या मुक्ताकलापोत्पाद्या । कैः । नयनविगलदौः नेत्रपतदश्रुभिः । कीदृशैरिव मौक्तिकैर्वा । मुक्ताफलरचितानि इव । वा इवाथें । कस्यां जन्यते ? रजन्यां रात्रौ तथा अहनि दिने च । हा कष्टम् । तस्याः कथंभूतायाः ? [मतायाः] अभीष्टायाः । तथा सत्खनेः शोभनाकरस्य । कस्याः ? वामतायाः चारुतायाः । रात्रौ दिवा सा रोदिति इत्यर्थः ॥१८॥
निशि निशि हसति धौर्भासमानां वरां ता
मुडुभिरिव सिताभिर्भासमानाम्बरान्ता । अपि विमलसर श्रीः कौमुदाऽऽभासिताऽपा
मवपुरिघुविषाग्नेः को मुदाऽऽभासितापा ॥१९॥ १. भवद् सू० । २. मानानुकूलितं दे०॥ ३. मुक्ताफलैरिव म्॥ १. १० प्रवौ वा इदार्थे इति भधिकम् ५. चारुवस्य सू०॥