________________
श्रीमानाककृतम्
सिंधुत्वं सलिलैर्दधाति वसुधा संजातपका पदम्
पान्थः कर्तुमलं न लुप्सनलिनीकान्तातपं काऽऽपदम् । दृष्ट्वा मेघमुपैति नात्र वनिता भर्ना विहीनाधिक
संदृष्टा हरयो नदन्त्यविरतं स्वादुस्वनेनाधिकम् ॥३४॥ सिन्धु० । वसुधा पृथ्वी सिन्धुत्वं समुद्रत्वं दधाति धारयति । कैः । सलिलै जलै । कीटशी संजातपङ्का सम्पन्नकर्दमा । तथा पदम् अवस्थानं कर्तु विघाई नालं न समर्थः । कोऽसौ पान्थः पथिक । का वनिता स्त्री न उपैति । व गच्छति : काम् ? आपदम् सन्तापम् । किं कृत्वा ' दृष्ट्वा विलोक्य । कम् : मेघं धनम् । कीदृशम् ? लुप्तनलिनीकान्तातपं लुप्तोऽपनीतो नलिनीकान्तस्य सूर्यस्य आतपो धर्मो येन स तम् अपहृताऽऽदित्यातपमित्यर्थः । कीदृशी वनिता भार्या [भ] प्रियेण विहीना रहिता । कथम् उपैति । अधिकं समग्रम् । तथा इरयो मण्डूका नदन्ति अव्यक्त ध्वनन्ति । कीदृशा : सहृष्टाः प्रीताः । केन कथ च नदन्ति ' स्वादुस्वनेन मधुरध्वनिना । अविरतं निरन्तरम् । कस्मिन् हरय' नदन्ति । अधिक क जलम् अधिकृत्य अधिक जले इत्यर्थः । कारकार्थेऽव्ययीभाव' । क्व सर्वमेतत् । गावैध प्रतस्मिन् वर्षाकाले । शार्दूलविक्रीडितम् ॥३४॥ मेघपक्तिरलिभिः समा नवा
क्लिष्टदारपरिहीनमानवा । पातयत्यवनता जलं धनम्
यत्सरोम्बुनि सरोजलखनम् ॥३५॥ मेष: मेघपडक्तिधनराजि. पातयति मुश्चति। किं तद् ? जलं पानीयम् । कीदृशम् । धनम् निरन्तरम् । कीदृशी ? समा तुल्या । कै. ? अलिमिः भ्रमरै कृष्णेत्यर्थः । नवा नूतनी । तथा लिष्टदारपरिहीनमानवा क्लिष्टाः पीडिता दारपरिहीना स्त्रीरहिता मानवा नरा यया सा । तथा अवनता जलभरेण नम्रीभूता। कौदर्श जलम् । सरोजलकुनं पनातिक्रमकम् । कस्मिन् । सरोम्बुनि तडागजले । [रथोद्धताच्छन्द.] ॥३५॥
चन्द्रादित्यौ स्थगयति घनो विश्वदीपावनेक
स्तीफे नधा विपुलपयसि स्नाति नो पावने कः । आकूलान्ताधदभिनवा: पश्यतः सत्सरोप
स्तूर्ण इन्तुं भवति पथिकान् मीनकेतुः सरोपा ॥३६॥