________________
२७४
अनुसन्धान-६४.
पति
अनुसन्धान - अङ्क ६१, विज्ञप्तिपत्रविशेषाङ्क - खण्ड २ मां पृ. ८७९२ पर महासमुद्रदण्डकमय पत्र प्रकाशित छे. तेमां मङ्गलना ५ श्लोको त्रुटितरूपमां छे. ताजेतरमां आ ज पत्रनी अन्य हस्तप्रत मळतां ते श्लोको पूर्ण थई शकेल छे -
स्वस्ति श्रीमदमन्दनन्दथुनमन्नाकीन्द्रचूडामणिश्रेणीस्रग्मकरन्दमेदुरपदद्वन्द्वारविन्दः प्रभुः ।। चेतश्चिन्तितपूर्तये भवतु वः श्रीपार्श्वचिन्तामणिभव्याम्भोजनभोमणिचूहमणिः स्फारस्फुटान्तर्मणिः ॥१॥ स्वस्ति श्रीस्फुरदिन्द्रनीलधवलं वर्म व्यभात् श्यामलं श्रीपार्श्वस्य विशेषितं फणिफणारत्नप्रभारेखया । उन्मीलन्नवरत्नकाङ्करशिरः किं नीलवद्भूभृतो वार्यन्तर्गतरत्नरुक्कपिशितं कालोदधीयं किमु ? ॥२॥ स्वस्ति श्रीअमृतद्रवातिवपुर्वल्लीप्रफुल्लोल्लसत्कल्हारादतिशायिसौरभभरा यस्योज्जजृम्भे विभोः । शङ्के शान्तिरसोऽन्तरालवसतिनिर्यात्यमान्तं(न्तो?) बहिस्तस्मै कश्मलघस्मरैकमहसे पार्खाय पुंसे नमः ॥३॥ स्वस्तिश्रीफलकन्दली सकुसुमा मूर्त्तित्रयी नेत्रयोः पीयूषाञ्जनवर्तिकाञ्जनरुचेर्यस्येव वर्गत्रयी । मूर्त्ता गारवशल्यदण्डदलिनी रत्नत्रयीवाऽद्भुता विघ्नव्यूहविहीनमाह्निकविधि देवो विधेयादयम् ॥४॥ स्वस्तिश्रीवृषभः श्रियं सृजतु स: श्रीराजसिंहावनीप्राणेशः किल राणपट्टधवलप्रासादशृङ्गध्वजः । वर्णं टङ्कमितं च सेरकचतुर्थांशेन तैलं च यत्
पूजायै निजपूर्वजैरुपहृतं दत्ते कृती प्रत्यहम् ॥५॥
आ सिवाय पृ. ८८ पङ्क्ति २ मां ‘परंकुर्त(?)'नी जग्याए ‘परं कुर्न' अने पृ. ८९ पङ्क्ति ४मां '०वातूलयो_यिता'नी जग्याए '०वातूलयोड्डायिता' अटलो सुधारो छे.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org