________________
२३४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
कर्मग्रन्थादिकग्रन्थाः, शिष्यानध्यापयत्सु च । शर्मदः सर्वसत्त्वाना-मी(मि)याय पर्वणां पतिः ॥१२॥ समागते च पर्वणि, कल्पसूत्रस्य पुस्तकम् । मोतीचन्द्रेण न्यष्ठाच्च, विहितो रात्रिजागरः ॥१३।। गजारूढ(ढेण)मोरेण(?), पुष्टे सङ्घः समं मुदा । महःपूर्वकमस्माक-मदात्(कं तद्दत्तं?) करनीरजे ॥१४॥ अस्माभिर्दश व्याख्यानं, कृता(:) श्रीसङ्घपर्षदि । पूर्वघस्ने कल्पसूत्रं, प्रवाचितं हिताब्धिना ॥१५॥ जाण(?) श्राद्धसद्मनि, दशव्याख्यानमुत्तमम् । प्रकीर्तिता(तं)प्रमोदेन, मुनिना हर्षकीर्त्तिना ॥१६॥ वार्षिकप्रतिक्रमणं(णे), दत्त्वा च क्षामणं मिथः । प्रत्तं सांवत्सरं दानं, ताम्रमुद्रा तु पेटके ।।१७।। चैत्यप्रपाटिकां कृत्वा, हृतं पाप्मा(प्म)समूहकम् । प्रभावना द्वाविंशति-श्रद्धालव(वैः) वितेनिरे ॥१८॥ अथ पारणाधिकारः - चातुर्मासकपारणं, चन्द्रभाणेन कारिता(तम्) । पटुआज्ञातीयमध्ये, मीठाचन्देन तत्समम् ॥१९।। वृद्धापाक्षिकपारणां, देवीदासो व्यचीकरत् । अपरे तत्पारणक(काः), कृतलेन विधायि(पि)ताः ॥२०॥ त्रैलाधरपारणक(कं), बूलचन्द्रेण बर्फरात् । सकल श्राद्ध-श्राद्धीनां, चक्रे च शुभभावतः ॥२१॥ मुक्तिसमोज्ज्वलं चित्त(:), मोतीचन्द्रसुश्रावकः । विविधानि च पक्वानै-रकारि पर्वपारणा ॥२२॥ अन्ये वार्षिकपारण(णाः) कारिता मकनेन च । बहूनि भव्यलोकानि, शीलव्रतमपालयन् ॥२३।। एकाश्राद्धया(च) सद्भक्त्यो-पवासा स (कृताः) _ _ _ । अष्टावेकाश्राविकया, चैक्या पञ्च भावतः ॥२४॥
[अपूर्णं पत्रम्]
-xनेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर, सूरत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org