________________
फेब्रुअरी २०११
भविकमलप्रतिबोधकत्वेनाऽपूर्वचन्द्रोऽसि । जगति-पदे हलदन्तादितिसूत्रेण समासे, सप्तम्या अलुक्, तस्य सम्बोधने - हे जगतिप्रमदकुमुदहिमदीधिते ! त्वं जय ।
१४३
कुं पृथ्वीं पिपर्त्ति-पालयति इति विग्रहे पृ पालनपूरणयोरस्मात्कर्मण्युपपदेऽण्, अन्येषामपीति दीर्घे कूपारशब्दो लाक्षणिकस्तेनाऽत्र गृहीतो मेघ इति करुणारूप एव रसो जलं तस्य यः कूपारो मेघस्तेन करुणार्द्रचेतोभावेन तस्माद् वा विमोचिता दूरीकृता परिणयनसमये पश्रू (शू) नां सितिर्बन्धनता येन सः । यद्वा करुणारस: कूप इव कूपो गाम्भीर्यादिना गुणेन तमर्त्ति प्राप्नोति यः स करुणारसकूपारो गम्भीरतादिगुणयुक्तः सन् शेषं पूर्ववदेव । अत्रापि कू गतौ, ततोऽणि यथेष्टसिद्धिः । सिंधौ (सिद्धो ? ) पृषोदराद्याकृतिगणत्वादकारलोपे कथंचिद् रूपसिद्धिरिति । तस्य सम्बोधने - हे करुणारसकूपारविमोचितपशुसिते !। षिञ् बन्धने ततः स्त्रियां भावे क्तिस्तेन सितिशब्दो निष्पन्न इति ॥२॥
जय जय स त्वमुदूटिधियाऽऽतुरता सती, त्यक्ता येन विरागवता राजीमती । जय जय निर्गतदोषकोषनिजगुणतते !, सकलसुरासुरराजरचितसार्चानते ! ॥३॥
जय जय सत्वमिति । उदूटिरूपा धीस्तया आतुरता - व्याकुलीभूता सती राजीमती येन विरागवता त्वया त्यक्ता स त्वं जय इत्यन्वयः ।
निर्गतो दोषकोषो-दोषसमूहो यस्या निजगुणततेरात्मिकगुणविस्तारात् यस्य स: यद्वा निर्गता-प्राप्ता दोषकोशात् अनादिकालीनमिथ्यात्वादि(दे)र्निजगुणानां ततिः-श्रेणिर्येन सः, तस्य सम्बोधने - हे निर्गतदोषकोषनिजगुणतते ! त्वं जय । ये गत्यर्थास्ते प्राप्त्यर्था इति वैयाकरणानां सिद्धान्तः ।
सकलसुरासुरराजभिः रचिता - कृता अर्चासहिता नतिर्यस्य सः, तत्सम्बोधनेहे सकलसुरासुरराजरचितसार्चानते ! ॥३॥
जय जय शमदमलीनपीनसमतारते ! भुवनविभूषणवर्णवर्णवारिजगते !
जय जय कुमतिकुवाटनिशाटनिशान्तकृद् !, वाग्द्युतिदर्शितभुवनभावपथपीथवद् ॥४॥