SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी-2005 19 दृष्टान्तो गुरुभक्तिसालमनसां मौलिस्तवः श्रीजुषां, सर्वाश्चर्यमयो महिष्टसमयः श्रीगौतमः स्तान्मुदे ॥१॥ यस्य द्वापरमात्मगोचरमहो वीरः स्वयं केवला लोकालोकितविश्ववस्तुनिकरः कारुण्यवारांनिधिः । युक्त्या वेदगिरा निरस्य नितरां दीक्षां ददे पञ्चभिः, सार्धं शिष्यशतैः स गौतमगुरुर्दिश्यान्मनोगौरवम् ॥२॥ मगधेषु मगध्यामो मणीयामपि गोर्वरम् । पृथिवीं विद्मवसुधां यत्राजायत गौतमः ॥३॥ यः शिष्येभ्यो बहुभ्यः त्रिभुवननयनं केवलालोकमोकः, सर्वस्या एव ऋद्धेः परमपदसमारोहनिःश्रेणिकल्पम् । दत्त्वा श्वेतोपमेय(यो ?)महिमपरिमलोद्गारगौरव्यकीर्तिः, ___स श्रीमानिन्द्रभूतिः क्षिपतु मयि दृशं निर्विवादप्रसादम् ॥४॥ सकलसमयसिन्धोः पारगामीति विद्वा ___ नपि विनयविवेकब्रह्मसंवर्मितात्मा । किमपि किमपि तत्त्वं सत्त्ववर्गोपकृत्यै, जिनमनुयुयुजे यः सोऽवताद् गौतमो वः ॥५॥ यं निःशेषगुणाकरं गुरुतयाङ्गीकृत्य सर्पिर्मधु स्वादी यः(?) परमान्नपूर्णजठराः स्वामोदमेदस्वितः(नः?)। सद्यः केवलितामिता बत परिव्राजो जिनायापि नो तेऽमुस्तं(नेमुस्तं) परमोपकारिणमहं वन्दे गणाधीश्वरम् ॥६॥ यस्याने भगवज्जगद्गुरुमहावीराहतोऽनुज्ञया, । देवाः प्रेक्षणाकं त्रिलोकजनताचित्तेक्षणां मांक्षिणम्(चित्तेक्षणाकांक्षिणम्)। कुर्वाणा कृतकृत्यतामिव कलाकौशल्यदिव्यश्रियोमन्यन्ते स्म स मान्यतां मुनिपतिः श्रीगौतमः सत्तमः ॥६॥ श्रुतमपि बहुभक्त्याऽऽराध्यमाना अजस्रं, ददति किमपि कृच्छ्रात्प्रायशः सूरयोन्यो(योऽन्ये?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520531
Book TitleAnusandhan 2005 02 SrNo 31
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy