________________
अनुसन्धान-३१
श्रीजिनपतिसूरिग्रथितं उज्जयन्तालङ्कार-नेमिजिनस्तोत्रम् सुगृहीतनामधेयैः समुपचितनिचितभागधेयैः स्वमतिप्रतिभाप्रतिहतसुरगुरुभिर्गुणगणगुरुभिः प्रवरनव्यकाव्यप्रबन्धमधुमधुरसुधारसपानप्रमोदितसूरिभूरिभिः श्रीयादवकुलतिलकस्य समुद्रविजयाङ्गजस्य निष्पिष्टदुष्टाङ्गजस्य समस्तत्रिभुवनसौभाग्यभाग्यलक्ष्मीसनाथस्य श्रीनेमिनाथस्य स्तुतिश्चक्रे । तद् यथाव्याख्यास्तु यस्य रदनद्युतयोऽसिताङ्ग
भाशारिता विसृमरा हरिदङ्गनानाम् । वक्षःसुनीलमणिखण्डविमिश्रमुक्ता
दामश्रियं विदधिरेऽवतु वः स नेमिः ॥१॥ यस्याङ्गनिर्यदतिसान्द्रविसारिनील
___ कान्तिप्रतानपिहिताः ककुभो विभाव्य । जन्मोत्सवस्य दिवसे नववारिवाह
सन्दोहशङ्किधियो ननृतुर्मयूराः ॥२॥ श्रीमच्चतुर्वदनभाषितवाङ्मयाब्धिः,
पादोपगृहनपवित्रितराजहंसः । पद्मोद्भवस्त्रिजगतीभवकृत्स्वयम्भू
र्यो दिद्युते नियमितस्फुरदक्षमालः ॥३॥ कृत्स्नागसन्धिसुभगां प्रणिधिप्रधानां,
सद्विग्रहां मृदुकरां वरदन्तियानाम् । उत्सृज्य राज्यकमलां गुणराजमानां,
राजीमती च दयितां जगृहे व्रतं यः ॥४॥ भामानिलीनहदयः सहितो बलेन,
सद्धर्मचक्रमथितप्रतिपन्थिसार्थः । गोपालपूगकृतसंस्तवनोर्च्यते यो,
गोमण्डलं जडविपत्तित उद्दधार ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org