SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ __ 11 फेब्रुआरी-2005 वरजीनमेरी-तत्पुत्रबालईसुप्रभृतिमूर्तीः स्थापयित्वा धूपदीपादिभिर्यजन्ति । ग्रीकास्तु स्वकीयेषु मन्दिरेषु गृहेषु चोक्तमूर्तीरन्या अपि प्राचीनतमज्युपीटरज्युनो-मीना-विनस-न्यूसप्रभृतिमूर्तीः स्थापयन्ति यजन्ति च । प्रोटेस्टन्टाश्च यद्यपि मूर्तिमवगणयन्ति तथापि क्रोसं कल्पयन्ति, अस्त्वेतत् । किञ्च प्रोटेस्टन्टा म्लेक्षाश्च हझकरणाय गच्छन्ति तत्र प्रस्तरं चुम्बन्ति च । शिक्खेष्वपि शिक्खसिंघाख्ये द्वे शाखे । तत्र सिंघेभ्यो नवघ्नाः शिक्खा:-सर्वेऽपि मूर्ति पूजयन्ति, सिंघाश्चाऽवगणयन्ति । जैनेष्वपि श्वेताम्बर-दिगम्बरा मूर्ति पूजयन्ति । केवलं पिष्टलवणनिदर्शनसंख्या ढुण्ढकास्तेरापन्थिनश्च तां तिरस्कुर्वन्तोऽपि गुरुवन्दनावसरे भूमिमासनादिकं वा गुरुचरणतया तथाविधवस्त्रवेषं पूज्यपदवीख्यापकतया कल्पयन्ति, गुरुवस्त्रासनादेराशातनां पूज्यतया वर्जयन्ति, स्वगुरुप्रतिकृति च गुरुतयाऽङ्गीकुर्वन्ति । पारसिका अपि भानुं बृहद्भानुं च पूजयन्ति । अन्या अपि एनीमीस्टानाम्नी प्रजा असुमतोऽसुमन्मूर्तीश्च पूजयन्ति । मूर्तिपूजकानां संख्या बौद्धाः अष्टपञ्चाशत्कोट्यः (५८०००००००) रोमनकेथोलिकाः एकोनचत्वारिंशत्कोट्यः (३९०००००००) ग्रीकाः एका कोटी (१०००००००) भारतीयाः (हिन्दु) एकविंशतिकोटयः सप्तषष्टिलक्षाः (२१६७०००००) जैनाः सप्तविंशतिर्लक्षाः (२७०००००) एनीमीस्टाः पञ्चदशकोट्य द्वयशीतिर्लक्षाः (१५८२०००००) सर्वसंख्या एकमब्जं पञ्चत्रिंशत्कोट्य: षट्सप्ततिर्लक्षाः (१३५७६०००००) मूर्तिनिषेधकानां संख्या याहूदिनः एकाकोटीद्वाविंशतिर्लक्षाः (१२२०००००) प्रोटेस्टन्टाः सप्तदशकोट्यः षोडशलक्षाः (१७१६०००००) पारसिकाः एकं लक्षम् (१०००००) म्लेक्षां (मोस्लेम) द्वाविंशतिकोय्योऽष्टादशलक्षाः (२२१८०००००) ढुण्ढकाः पिष्टलवणनिदर्शनसंख्याः । सिंघाः लक्षत्रयं (३०००००) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520531
Book TitleAnusandhan 2005 02 SrNo 31
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy