________________
ŚABDABRAHMOLLĀSA OF UDAYAPRABHA 235 बहिरङगैरन्तरङगैस्तरङगैः सर्वपोषिताम् । अहं तामेव संस्तौमि शिवां कैवल्यसंपदम् ॥ १२ ॥ यत्रान्यमहसां ध्वान्तमहमस्मीति य[B 4]न्महः । तदन्यापोहनिर्मोहमात्मनैव प्रसीदतु ॥ १३ ॥ अहंकारमनष्टात्मरूपमान्तरमीड्महे । स्फुरत्युपरि विश्वस्य यत्परिस्पन्दसंपदः ॥ १४ ।। [F 5]दृग्ज्ञानानन्दशक्तीनां यत्रानन्त्यमबाधितम् । तदनारोपितैश्वर्यमहत्तत्त्वमुपास्महे ॥ १५ ॥ श्रवणं मननं ध्यानं साक्षात्करणमित्यसौ । [B 5] क्रियाचतुष्टयी मे स्तादहत्तत्त्वैकगोचरा ।। १६ ।। परं ब्रह्मेश्वरः शक्तिर्लोकेशः केशवः शिवः । बुद्धः शून्यमलक्षश्चेत्यहँस्तव विभूतयः ॥ १७ ॥ दोषनास्तिककर्मज्ञ ब्रह्मज्ञानिन्ननावृ[F 6]त । सुगतात्मविवेकज्ञ द्योतिर्जटिल ते नमः ॥ १८ ॥ चराचराणामुत्पादविगमध्रौव्यशासनात् । सर्गप्रलयशान्तीनामेकस्त्वं हेतुरीशिषे ।। १६ ॥ पृथ्वीपीठदृढे तिर्यग्द्वार्यनुत्तरभूहृदि । *लो[B 6]काग्रचूले ब्रह्माण्डप्रासादे दैवतं भवान् ।।२०।।
1 positām NMK. 2 °naivam MS.? 3 Grammar warrants sphurantyu°. - drkjñā° MS. See note 6 below. 5 See note 2 on p. 234. stiryak° MS. See mote 4 above.
lo written twice in MS.