________________
જૈત્રસૂરિશિષ્યકૃત ‘વીતરાગસ્તુતિ’
Jain Education International
वीतरागस्तुति ( भुजंगप्रयात छन्दः )
शान्तं शिवं शिवपदस्य परं निधानं सर्वज्ञमीशममलं जितमोहमानम् ।
संसारमारखपथाद्भुतनिर्जरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥१॥
अव्यक्तमुक्तिपदपंकजराजहंसं
विश्वावतंसममरै विहितप्रशंसम् । कंदर्पभूमिरुहभंजनमत्त [ रागं ? नागं ]
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥२॥
दुःकर्मभीत जनताशरणं सुरेन्द्रैनिश्शेषदोषरहितं महितं नरेन्द्रैः । तीर्थंकरं भुवि कदापि न भुक्तिभाजं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥३॥
दान्तं नितान्तमतिकान्तननन्तरूयं
योगीश्वरैः किमापि संविदितश्च रूपम् । संसारवार र ]निधिमंथनमन्दरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥४॥
संसारवारिनिधितारणयानपात्रं
ज्ञानैकपात्रमतिमात्रमनोन्यगात्रम् । दुर्वास्वारघनवातनिशातनागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥५॥
कल्याणवल्लिनवपल्लवनाम्बुवाहं
त्रैलोक्यलोकनयनैकमुधाप्रवाहम् ।
सिद्ध्यङ्गनावरविलासनिबद्धरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥६॥
दारिद्रदुःखवनदावदुरन्तनीरं मायामहीस्फुटविदारणसारसीरम् ।
For Private & Personal Use Only
૨૫૫
www.jainelibrary.org