________________
Vol. III - 1997-2002
१६
श्रीविषुधप्रामायार्य रथित.... ॥ श्रीविवाहप्रज्ञप्तिपञ्चमाङ्गस्तोत्रम् ॥
(शिखरिणीवृत्तम्) चतुर्विंशश्रीमज्जिन विततवंश ध्वजलते ! सुधर्मस्याम्युद्यद्-वदनविधुचन्द्रातपतते !! नव-स्फुर्जत्-तत्त्वप्रकटनकलादीपकलिके ! विवाहप्रज्ञसे ! जय जय जय त्वं भगवति ! ॥१॥ जितात्मा षण्मासावधिसमयसंसाधनपरः, सहायैः सम्पन्नो गतविकृतिकाचाम्लतपसा । उपास्ते भक्त्या श्रीभगवति गतक्लान्तिरनिशं; महामन्त्रं यस्त्वां स भवति महासिद्धि भवनम् ॥२॥ शिव श्रीवश्यत्वं विकटविपदुच्चाटनघयं, समाकृष्टि सिद्धेविषयमनसो द्वेषणविधिम् । विमोहं मोहस्य प्रभवदशुभस्तम्भविभवं; ददत्या मन्त्रत्वं किमिव भगवत्या न भवति ? ॥३॥ महाघ रत्नाढ्यं प्रसृमरसुवर्णं निधिमिव, क्षमा-संवीतं त्वां सुभग ! भगवत्यङ्ग ! कृतिनः ! तपस्यन्तो ज्ञानाञ्जननिचितसद्दर्शनतया; लभन्ते ये ते स्युर्नहि जगति दौर्गत्यभवनम् ॥४॥ गभीरः सद्रनो दिशि विदिशि विस्मेरमहिमा, क्षमाभूद्भिः सेव्यो जयति भगवत्यङ्गजलधिः । कवीन्द्राः पर्जन्या इव- यमुपजीव्य प्रकरणाऽमृतैर्वृष्टिं चक्रुः कटरि बहुधान्योपकृतये ॥५॥ अलीकार्तिच्छेदो विशदतरता दर्शनविधौ, विभेदोऽन्तर्ग्रन्थेनिहृदयशुद्धिविमलता । सतापोद्यत् कामज्वरभरहतिः सद्गतिकृतिः त्रिदोषी-मोषोऽपि व्यरचि भगवत्यङ्गभिषजा ॥६॥ सदौषध्याटोपं न घटयसि नो लङ्घनविधि, क्वचिज्जन्तोः प्रख्यापयसि न कषायान् वितरसे । तथाऽप्याधत्से त्वं विषमतमकर्मामयहति; नवीनस्त्वं वैद्यो जयसि भगवत्यङ्ग ! जगति ॥७॥ तदेवं विश्वेषामपहरसि निष्कारणकतो पकार-स्फारान्तर्गतनत विकारव्रजमपि ! विवाहप्रज्ञप्ते ! तदपि मयि बाह्यज्वरभरव्यथाक्रान्ते सम्प्रत्यहह करुणां किं न कुरुषे ? ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org