________________
34
उद्वाहकालकरपीडनमित्यभावे यस्मिन्नभूद्विषयपूर्वकमन्यथा न । श्रीश्रीमति प्रवरपट्टनमेडताख्ये सिंहोद्धताऽत्र भवदङ्घिरजष्पवित्रे ॥२८॥ यत्र स्थिरादनगरे नगतुङ्ग केतनं श्रीमारुदेव जिननायकसन्निकेतनम् । वादित्रदुन्दुभिमृदङ्गकनादनर्तनं सिन्धूत्थमण्डलमभादिव वृत्तमण्डनम् ।।२९॥ पटुकटुकमतमयमकरनगरं तदपि सुगुरुगुरुगुणजपनम् । जयति मणिगुणनिकरजनभवनं स्रगिव नरनिगरण इह जगति यत् ॥३०॥ संसृतितारणतत्परधर्ममतिप्रततिः पात्रसुपात्रयतिप्रति पादनरागवती । श्रावक जावड-भावड-सम्प्रतिकृत्यकृतिः यत्र विभाति सदार्हतसंहतिरश्वगतिः ॥३१॥ सदाऽस्तिका प्रशस्तिका सदास्तिका प्रशस्तिका । यथा यथा तथा तथा स्वराऽऽनरालिकाऽऽलिका । निरस्तपञ्चचामरा प्रशस्तपञ्चचामरा ऽबृहद्विकर्णिकाभिधानतस्ततः स्थिराद्रतः ॥३२॥ सहर्षपुलकोल्लसत्करणमेदुरानिन्द्रियो विधाय मितवन्दनं विधिवदग्रपृथ्वीदृशा । ललाटघटितस्वपाणि रचयत्ययं हर्षितो विनेय विनयादिवर्दन इतीह विज्ञप्तिकाम् ॥३३॥ दिवानाथे नाथे दिदिविनिलयानां शिखरिणीश्वरे पद्मानां भास्वति सति विभाते प्रतिदिनम् ।
१. सिंहोद्धतावृत्तम् । २. गृहम् । ३. स्त्रक्वृत्तम् । ४. लता । ५. दान । ६. कार्य । ७. अश्वगतिवृत्तम्। ८. पञ्चचामरवृत्तम् । ८. पृथ्वीवृत्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org