________________
(२५)
यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलत, चञ्चच्चन्द्रकचत्रचित्रितककुप्कन्याकुलं ध्यायति । वाणी वाणिविचित्रभङ्गुरपदप्रागल्भयशृङ्गारिणी, नृत्यत्युन्मदनर्त्तकीव सरसं त्वद्वारङ्गाङ्गणे ॥ ३ ॥
देवि ! त्वत्पदचन्द्रकान्तकरकश्चयोतत्सुधानिर्झरस्नानानन्दतरङ्गितः पिबति यः पीयूषधारारसम् । तारालङ्कृतचन्द्रशुक्तिकुहरेणाकण्ठमुत्कण्ठितो, वक्त्रेणोद्रिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ४ ॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोकात्फणा
पत्रोत्रिद्रसितारविन्दकुहरे ! चन्द्रस्फुरत्कर्णिके ! | देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं, ब्राह्मि ! ब्रह्मविदस्य वल्गति वच: प्रागल्भ्यदुग्धाम्बुधे ! ॥५॥ नाभीपाण्डुरपुण्डरीककुहरे हृत्पुण्डरीके गल
पीयूषद्रका (व) वर्ष (र्षि)णि ! प्रविशतीं त्वां मात्रिकामालिनीम् । दृष्ट्वा भारति ! भारती प्रभवति प्रायेण पुंसो यया, निर्ग्रन्थोऽपि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥६॥ त्वां मुक्तामय सर्वभूषणधरां श्वेताम्बराडम्बरां, गौरी गौरिसुधां तरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलय श्वेताब्जवलगत्करां, न स्यात्कः शुचिवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥
अश्येत्स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां, यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । सुस्वच्छोद्गतिगद्यपद्यलहरीलीलाविलासामृतैः, सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ८ ॥
तद्वेदान्तशिरस्तद कृतिमुखं ज्योतिः कलालोचनं, तत्तद्वेदभुजं तु (त) दात्महृदयं तद्गद्यपद्याहि च । स्व विभावयत्यविरतं वाग्देवि ! तद्वाङ्मयं, शब्दब्रह्मणि निष्ठितः स परमब्रह्मकतामश्नुते ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org