________________
April-2003
27 यैस्तव स्तवनकर्मणि वाणी, स्वागताधततिभिर्विनियुक्ता । ते भवन्ति भवनाधिपतित्वं, प्राप्य नाथ ! जगति स्तवनीयाः ॥२०॥ (स्वागता) भवदा ददतां प्रबोधितां ध्वनिना दत्तहरित्प्रतिश्रुताम् । अमृतप्रदकेन निन्यिरे, मुदिरेणेव रयेण विस्मयम् ॥२१॥ (प्रबोधिता) मुक्ताफलेन जिनेन्द्र ! यादवक्षोणीन्द्रवंशाग्रमलंकरिष्णुना । निस्वासनैर्मल्यवता कृतस्त्वया, कस्को न दृग् मार्ग[य]ते न मोदभाग् ।।२२।।
(इन्द्रवंशामिश्र-उपजाति) चलन्महीरत्नमयध्वजां चलच्छलान्नरीनति जगत्पते ! तव । यशस्ततिर्विष्टपदिष्टविस्मया, सुतुङ्गवंशस्थनटीव सर्वदा ॥२३॥ (वंशस्थ) भक्तिसस्पर्धवर्धिष्णुसत्संमदा, नाथ ! जज्ञे जनालीनमन्मौलिका । तावकीनाझिपद्माग्रजाग्रन्नखप्रोन्मिष ज्ज्योतिषां श्रेणिभिः स्रग्विणी ॥२४॥
(स्रग्विणी) द्रुतविलम्बितभावविवर्जिता, सकलजन्तुहिता गतमत्सरा | जयतु ते युगपज्जनकोटिहत्प्रभवसंशय[सं]हरिणीश ! वाक् ॥२५॥
(द्रुतविलम्बित) वरजाङ्गलीव जिन ! यच्छुतिषु, प्रमिताक्षराऽपि तव गीरविशत् । तरसा ततोऽनशदशेषमपि, स्फुटदर्पदर्पकमहाहिविषम् ॥२६।। (प्रमिताक्षरा) प्रिय ! भूषय मां भव माऽभिमुखः, पारितोऽट कलंकय मा स्वबलम् । इतिवाक्यमिदं श्रवणेऽप्यवहन्नवधीश ! रयाद्भवता मदनः ॥२७।। (तोटक) नरेन्द्रान्वयोद्भूतनिधूतदोषप्रभूतप्रभावप्रभो ! सत्कलाब्धे ! । विदीकृतोद्यन्मनोभूभुजङ्ग !, प्रयातं शिवं कैर्न हित्वा नमद्भिः।।
(भुजङ्गप्रयात) प्रमुदितवदनाः प्रभाभासुराः प्रणयभरभृताः सुपर्वाङ्गनाः । भवति नतिकृतां जनानां विभो ! वदति दिवि सदाशिषः शंपुषः ॥२९॥ (प्रभा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org