SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४५ तेऽकब्बरक्षितिपति प्रतिबोध्य जीवा ऽमारिप्रवर्तनमजस्रमचीकरन् द्राक् । सिद्धाद्रिरैवतकभूधकरोरुमुक्ति, भूस्पृक्सुखाय जिजिआकरमोचनं च ७७॥ [वसन्त] तेषां पट्टसरोजा-दित्याः श्रीविजयसेनसूरीन्द्राः । षट्ती लक्ष्मीरिव, चिक्रीड यदाननसरोजे ॥७८।। [आर्या] परमां रेखां प्राप्ता, यथार्थवादिषु सदा बभुर्गुरवः । ये जित्वा नृपसदसि, प्रवादिनः सार्ववाचमदिदीपन् १७१॥ [आर्या] तेषां पट्टे सम्प्रति राजन्ते राजसागराचार्याः । ये सर्वेषां सुविहित-साधूनां दधति साम्राज्यम् ॥८०॥ [आर्या] स्फुरच्चक्रप्रख्यं हरय इव सर्वज्ञशतकं, करे कृत्वाऽजय्यं विबुधगणसेव्यं प्रणयत: । अनादृत्याऽभाग्यात् स्थितमिह हि मिथ्यात्वमहितं, ममन्थुर्ये तेऽमी सकलसुखदाः सन्तु भुवने ॥८१॥ [शिखरिणी] श्रीराजसागराभिध-सूरीशानां सदा विजयिराज्ये । श्रीशान्तिदास-सङ्घ-प्रभुः श्रिया वर्द्धतां सुकृती ॥८२।। [आर्या] किञ्च - अङ्गान्युल्बणवेपथूनि सहसा भ्राम्यन्ति नेत्राणि य नामाकर्णनजाद्भयात् प्रतिकलं मुह्यन्ति चेतांसि च । जायन्ते द्विषतां स गूर्जरधराधीशत्वमुज्जृम्भयन्, भूमानाजमखान एष जयतान्यायैकनिष्ठो भुवि ।।८३।। [शार्दूल] किञ्च-चक्रे विहारं वसुधैकसारं, स वीरपालाभिधवर्द्धकोशः । यत्शिल्पमाकर्ण्य सुपर्वतक्षा, वसुन्धरामेति न लज्जयेव ॥८४|| [उपजाति] किञ्च-श्रीसौभाग्याभिधानामकृत कृतधियां सद्विहारप्रशस्ति, शिष्यो वर्षेऽद्रिनन्दक्षितिप(१६९७)परिमिते सत्यसौभाग्य एताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229275
Book TitleBibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size471 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy