________________
142
M. Jam būvijaya
पलभ्येत विशेषाभावात् । अन्य चेत् , कथमन्यभावे तदस्ति । उपचारमात्रं तु स्यात् । एतेन परत्र माव: प्रत्युक्तः" [ ] इति ।
P. 71. भट्टार्चटस्वाह" यद्युत्तरं कार्यात्मकं भावान्तरमेवाभावस्तदाऽग्निसंयोगादयोऽङ्गारादिजन्मनि व्याप्रियन्त इतीष्टमेवास्माकम् , किन्तु भावान्तरकरणेऽभ्युपगम्यमानेऽग्न्यादीनामिन्धनादावव्यापारात् तदवस्थमेवेन्धनादिकम् । ततश्च यथा अग्न्यादिसंयोगात् प्रागिन्धनादेरुपलब्धिरन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावुपलब्ध्यादेः प्रसङ्गः" [हेतुबिन्दुटीका पृ० ७८ ] इति, तदेतं भट्टार्चटाशयविटपिनमुत्पाटयति ।
___P. 72. यदप्युक्तं भट्टाचंटेन" यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धथादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" [हेतुबिन्दुटीका पृ० ७९] इति, तत् परसिद्धान्तानवबोधवाधितमित्युपेक्षामहति ।
___P: 74. तदाह भट्टार्चटः“पयुदास एवैको नअर्थश्च स्यात् । सोऽपि वा न भवेत् । यदि हि किश्चित् कुतश्चिद् निव]त तदा तद्वयतिरेकि संस्पृश्येत तत्पर्युदासेन । तच नास्ति सर्वत्र निवृत्तिभवतीत्युक्त वस्त्वन्तरस्यैव कस्यचिद् विधानात् । तथा चानेन वस्त्वन्तरमेवोक्तं स्यात् , न तयोविवेकः । अविवेके च न पर्युदासः" [ हेतुबिन्दुटीका पृ० ८१ ] इति । P. 76. अत्र कीर्तिर्विनाशाहेतुत्वं साधनायोपन्यस्यति
"सापेक्षाणां हि *भावानां नावश्यंभावितेक्ष्यते । निरपेक्षो भावो विनाशे। सापेक्षत्वे हि घटादीनां केषाश्चिद नित्यताऽपि स्यात् । यद्यपि बहलं विनाशकारणानि सन्ति. तेषामपि स्वप्रत्ययाधीनसन्निधित्वाद नावश्यं सनिधानमिति कश्चिद नविनश्येदपि न झवश्यं देतवः फलवन्तः, वैकल्यप्रतिबन्धसम्भवात् ।" [प्रमाणवार्तिकस्ववृत्तिः Hindu Vishvavidyalaya Nepal Rajya Sankrit Series पृ. ६५, प्रमाणविनिश्चयः पृ. २७६ A] इति ।
"अयं च प्रमाणार्थों दर्शितः - यो यद्भावं प्रत्यनपेक्षः स तद्भावनियतः । यदि निरपेक्षोऽपि भावः कालदेशा[वस्था Tibetan]न्तरापेक्षया विनश्येत् तदा देशकालावस्थान्तरापेक्षत्वाद् निरपेक्षोन स्यात् । * 'धर्माणाम् इति प्रमाणविनिश्चये पाठः ॥