________________
( ६ )
दिश्यमणिसोपानः स्ववतारोत्तारः तोरणध्वजच्छत्रादिभूषितो नीलोत्पल - पौण्डरीक - शतपत्र-सौगन्धिकादिपु-पचितो विचित्रशकुनिमत्स्यविचरितः षट्पदोपभोग्यः । तन्मध्ये योजन मानं पद्ममर्धयोजनपृथु दशावगाढं जलाद्विकोशोच्छ्रयं वज्रारिष्टवैडूर्यमूलकण्डनालं बैडूर्यजाम्बूनद
पत्रं कनककर्णिकं तपनीयकेसरं नानामणिमयपुष्करम् । कर्णिकार्धयोजना तदर्घपृथुः । तदुपरि भवनं विजयार्धवत् । मणिपीठिकायां श्रीदेव्याः शय्या । तदन्येन तल्लक्षणेना जशतेन तदर्धमानेन वृत्तम् । तथा ज्ये कैकचतुर्दिक्षु क्रमशश्चतुरष्टदशद्वादशषोडशसहस्त्रेषु द्वितीषष्ठयोः स्थानयोश्चतुःसप्तसु पद्मेषु तत्सामानिकमहतरिकातदभ्यन्तरमध्यबाह्यपर्षदनीकाधिपात्मरक्षादिस्थानानि पश्चिमोत्तरक्रमाद्गुण्यानि । तद्वात्रिंशचत्वारिंशदष्टचत्वारिंशल्लक्षसंख्याभिस्तिभिः पंक्तिभिर्वृतम् ॥
तत्पौरस्त्यतोरणप्रवहा गङ्गा प्राग्गिरिणा * पञ्चशतगा गङ्गावर्तन कूटेनावर्तिता दक्षिणेन सशेषत्रयोविंशतिसहितानि पञ्चशतानि गता षट्कोशविस्तृता प्रवहे त्रिषष्टिर्मुखे मुखप्रमाणवेदिका सर्वत्र । तत्प्रपाते वज्रमी जिह्निकार्धयोजनायामा षडधिकविस्तृतार्धकं शथुला विवृतमकरमुखाकृतिः ॥
वज्रतलं तदधो गङ्गाप्रपातकुण्डं षष्टियोजनमायाम* टी पूर्वाभिमुखी ।
(७)
fasheervi अधःपञ्चाशद्दशावगाढं त्रिसोपान तोरणादिमत् । तन्मध्ये गङ्गाद्वीपो ऽष्टकायामविष्कम्भः । तन्मये भवनं तत्पीठिकायां शय्या गङ्गायाः । तद्दक्षिणतोरणगा खण्डकप पातगुहा विजयात्यविदारिका दक्षिणार्धयहुमध्यप्रायप्रवृत्ता अर्धार्धसमुत्थचतुर्दश सहस्रसरिता प्रवाहे अधो ऽक्रोशा सपादयोजना मुखे जगतीदारणसमुद्रानुप्रवेशा॥
तथापरेण सिन्धुः स्वकुण्डद्वीपत मिश्रागुहाविशिष्टा । षट्सप्ततिद्विशतषट् कलोत्तरगा तथा रोहितांशा गङ्गाfararedमाना स्वनामदेवीकुण्डद्वीपा शब्दापात्यार्धयोजनाप्राप्तापरगा हेमवनपाश्चात्यान्धिगामिनी । हिमवति सिद्धायतनक्षुल्लहिमवद्भरतेला गङ्गाश्रीरोहितांशासिन्धुसुरा हैमवतवैश्रमणकूटाः येकादश सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चशतोच्छ्रायाणि तावदधोविस्तृतान्युपरि तदर्धम् । प्रथमे जिनगृहं पञ्चाशत्तदर्घायामविष्कम्भ षट्त्रिंशदुच्चमष्टायामचतुर्विष्कम्भप्रवेशत्रिद्वारम् । मध्ये sष्टयोजनानि विस्तारायामाभ्यां मणिपीठिका चतुःपृथ्वी । तन्मानो देवच्छन्दकः साधिकाया मोच्छ्रयः । प्रतिमादि तद्वत् । शेषेषु प्रासादाः सार्धद्विषष्टियोजनोबास्तदर्धविस्तृताः सिंहासनवन्तः सिद्धायतनवत् ॥
( इति हिमवत्संग्रहः )