________________
(१८)
बलदेव वासुदेवा उत्कर्षेण चतुस्त्रिंशजिनक्षितीशाः ॥
( इति विजयाः )
इति द्वितीयमाह्निकम् ॥
अथ तृतीयमाह्निकम् ।
जम्बूद्रीपद्विगुण द्विगुणमाना द्वीपसमुद्राः पूर्वपूर्वपरिक्षेपणो वलयाकृतयः सर्वशुभवर्णादिनामानो ऽर्घतृतीयोद्धार सागरोपमसमयसङ्ख्या वेदिकादद्देवक्रीडोपभोग्यविचित्ररम्यभूमिभागां मानुषोत्तरबाह्याः ॥
तत्र लवणोदधिः सहस्रावगाढो मात्रया सप्तशतोच्छ्रितगोतीर्थपथेन पञ्चनवतिसहस्रः षोडशसहस्रशिखः । सा दशविस्तृता अभ्यन्तरतो बाह्यतश्च । तदुपरि द्वौ कालौ न्यूनार्धयोजनं ह्रासवृद्धिः । तत्र मध्ये लाक्षाश्चतुर्दिच पाताला वडवामुखकेयूपयूपकेश्वराख्याः साहस्रा वज्रमयकुडचा दशसहस्राण्यधोमुखे च कालमहाकालवेलम्बप्रभञ्जनावासा वायुघृतत्रिभागजला महालंजराकृतयः । क्षुल्लकाश्चान्ये साहस्रा अधोमुखे च शत्याः दशकुडथाः वायून्नामितमध्यमिश्रोपरिजलाः सप्तसहस्रचतुरशीताष्ट. शतसर्वा ग्रसङ्ख्याः । द्विचत्वारिंशद्विसप्ततिषष्टिसहस्रसङ्खयाः तत्रान्तर्बाह्यवेलाशिखाधारिणो नागाः । गोस्तूपोदकाभासशङ्खोदकसीमानो बेलाधारीन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्तूपशिवकशङ्खमनोहदवासा द्वि
( १९ )
त्वारिंशत्सहस्रेषु दिइया एकविंशसप्तदशशतोबा अघो द्वाविंशत्यधिकसहस्रविस्तारा उपरि चतुर्विंशचतुःशताः । तदुपरि प्रासादा हिमवत्। कर्कोटककामकलामारुणप्रभानुवेलाधारीन्द्रगिरयः सर्वरत्नमयाः । द्वादशसु सहसेषु प्राक्चन्द्रद्वीप तावद्विस्तारायामौ तावत्परेण सविश्रोतथा गौतमद्वीपः सुस्थितावासः तावति तथान्तर्बाह्यलावणकचन्द्रसूर्याणाम् ॥
तथाशेषद्वीपेषु पञ्चानाम् । स्वद्वीपेषु सर्वेषु प्रासादा हिमवदत् तद्राजघान्यश्च प्राक्पश्चात् ॥ लवणः समा अक्षुभितोदका उदद्धयः ॥ हिमवतः प्राक्पश्वाद्विदिक्षु व्यादिषु नचान्तेषु योजनश तेषु उदधाववगाह्य तावद्विस्तारायामाः सप्तसप्तान्तरद्वीपा - चतुश्चतुः प्रागुत्तरक्रमात् एकोरुका भाषिकलाङ्गूलिकवैपाणिका कर्णगजकर्णगोकर्णशष्कुलीकण आदर्शमुख
मेषमुखहयमुखगजमुखा अश्वमुखहस्तिमुखसिंहमुखच्याप्रमुखा अश्वकर्णसिंहकर्णहस्तिकर्णकर्णप्रावरणा उत्कामुखविद्युजिह्वमेधमुखवियुद्दन्ताः घनदन्तगूढदन्तविशिष्टदन्तशुद्धदन्ताख्याः । तेषु हैमवतवद्युग्मपुरुषाः तदाख्याः अ टधनुः शतोचाः पत्योपमासङ्घयेयभागायुषः । तथा शिखरिणोऽपि ॥
(इति लवणोदधिसमास: )