________________
मंगलाचरण
ॐ नमः सिद्ध भ्यः ! ॐ नमः सिद्ध भ्यः !! ॐ नमः सिद्ध भ्यः ! ! !
ॐ कारं बिन्दुसंयुक्त, नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव, ओंकाराय नमो नमः ।। अविरलशब्दघनौघप्रक्षालितसकल भूतलमलकलंकाः । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् ।।
अज्ञानतिमिरान्धानां ज्ञानाजनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।
श्री परमगुरवे नमः, परम्पराचार्य गुरवे नमः । सकलकलुषविध्वंसकं, श्रेयसां परिवर्द्ध' कं, धर्मसम्बन्धक, भव्यजीवमन: प्रतिबोधकारकमिदं शास्त्रं "श्री सिद्धान्तसार दीपक" नामधेयं, एतन्मूलग्रन्थकर्तारः थी सर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणवरदेवाः प्रतिगणधरदेवास्तेषां वचनानुसारतामासाद्य पूज्य भट्टारक श्री सकलकोतिविरचितम् इदं शास्त्र । वक्तारः श्रोतारश्च सावधानतया धृण्वन्तु ।
मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी। मङ्गलं कुन्दकुन्दाद्यो, जैनधर्मोऽस्तु मङ्गलम् । सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारकम् । प्रधानं सर्वधर्माणां, जैन जयतु शासनम् ।।