SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सीमित विषय को ही इन्द्रियों से देखते हैं, यह उपमान भी सर्वज्ञ का बाधक नहीं है । सभी पुरूषों को किसी के द्वारा विषय करने से उसी के सर्वज्ञत्व का प्रसंग आने से विषय नहीं करने में स्मृति का विषय नहीं होने से उपमेयत्व की उत्पत्ति भी नहीं होगी । स्मरण का विषय होने पर ही उनके अपने सादृश्य की विशिष्टता होने से उपमेयत्व हो सकता है । 162 ।। इसलिए जो स्मरण किया जाता है, वह सादृश्य के कारण उपमान का विषय हो सकता है, उपमान का विषय सादृश्य या उससे युक्त ही होता है, ऐसा वचन होने से । शाब्द प्रमाणं सकलदर्शिनः सत्ताविषयमेव " हिरण्यगर्भ प्रकृत्य सर्वज्ञ इत्यादेस्तस्यैव श्रवणात् । न च प्रत्यक्षादेर' भावविषयत्वं भावप्रमाणकल्पना वैफल्यप्रसंगात्। भवत्वभावादेव प्रमाणात्सर्वज्ञस्याभावप्रतीतिः, स च तद्विषय प्रत्यक्षादिनिवृत्तिरूपोऽनुपलंभ' इति चेन्न, तस्यात्म'संबंधिनः परचेतोवृत्तिविशेषैर्व्यभिचारात्, विद्यमानेष्वपि तेषु तस्य भावात् । तद्विद्यमानतायाश्च पश्चात्कुतश्चित्कार्यविशेषतोऽध्यवसायात् । 'सर्वसंबंधिनश्चयासिद्धेः सर्वज्ञस्या भावासिद्धौ तस्य स्वयं सर्वज्ञान्तरेणाप्युपलम्भसंभवात् । अभावसिद्धौ तस्य सिद्ध्यत्येव सर्वसंबंधी तदनुपलंग इति चेत्, न । सिद्धात्ततः तदभावसिद्धिस्ततश्च तत्सिद्धिरिति परस्पराश्रयोपनिपातात् । अन्यवस्तुनि विज्ञानं तर्हि तदिति चेत्, किं तदन्यद्वस्तु ? नियतो देशादिश्चेत्, न । ततस्तत्र तदभावस्येष्टत्वात् । सर्व इति चेन्न तज्ज्ञानवतः सर्वज्ञत्वप्रसंगात् । अतो न कुतश्चिदप्यभाववेदनं सकलवेदिन इति सिद्धं तस्य निर्बाधप्रत्ययविषयत्वं । नापि हेतोराश्रयासिद्धत्वमतः प्रागपि सकलज्ञप्रतीतेः प्रतिपादितत्वात् । यद्येवं किमनेनेति चेन्नातस्तत्सत्त्वव्यवस्थापनात् । प्राक्तन्या तु तत्प्रतीत्या नित्यानित्यत्वविकल्पसाधारणस्य शब्दस्येव सदसत्त्व विकल्पसाधारणस्यैव तस्योपदर्शनात् । न चाश्रयबलाद्धेतोर्गमकत्वं यतस्तद्रहितत्वं तस्य दोषः स्यादपित्वन्यथानुपपत्तिसामर्थ्यात् । तच्चानाश्रयत्वेऽपि निवेदयिष्यते चैतत् । ।63 ।। तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विं शेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् । । इति वचनात् ।। 1 विषयं । शाब्दलक्षणं यथा-शब्दाद्यदुदितं ज्ञानमप्रत्यक्षेऽपि वस्तुनि शब्दं तदिति मन्यंते प्रमाणतरवादिनः । प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते । सात्मनो परिणामो वा विज्ञानं वाऽन्यवस्तुनि । । । ।प्रमाणपंचकं यत्र वस्तुरूपे न जायते वस्तुसत्त्वावबोधार्थं तत्राभावप्रमाणता । 12 ।। 4 नास्ति सर्वज्ञोऽस्मत्प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात् । प्राभाकरमते सर्वज्ञबाधकप्रमाणाभावं प्रतिपाद्य, भाट्ठमतमिदानीमाह । प्रत्यक्षाद्यनुपलम्भस्य । 3 5 7 अस्मादनुमानात् । पूर्वस्मिन् जातया । धर्मसाधनाख्यहेतुस्वरूपानिरूपणावसरे । 8 42
SR No.090368
Book TitlePramana Nirnay
Original Sutra AuthorVadirajsuri
AuthorSurajmukhi Jain
PublisherAnekant Gyanmandir Shodh Sansthan
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy