________________
सा राजन्वती भूमिर्यस्यां नासुरवृत्ती राजा॥९७।। परप्रणेया राजापरीक्षितार्थमानप्राणहरोऽसुरवृत्तिः ।।८।। परकोपप्रसादानुवृत्तिः परप्रणेयः ।।१९।। तत्स्वामिच्छन्दोऽनुवर्तनं श्रेयो यन्न भवत्यायत्यामहिताय ।।१०।। निरनुबन्धमर्थानुबन्धं चार्थमनुगृलीयात् ।।१०१।। भाताबर्थो धमाय यायस्यां महानर्थानुबन्धः ।।१०२।। लाभस्त्रिविधो नवो भूतपूर्वः पैश्यश्च ॥१०॥
३०. युद्धसमुद्देशः
स किं मन्त्री मित्रं वा यः प्रथममेव युद्धोद्योगं भूमित्याग चोपदिशति स्वामिनः संपादयति च महन्तमनर्थसंशयम् ॥शा संग्रामे को नामात्मवानादादेव स्वामिनं प्राणसंदेहतूलायामारोपयति ॥२॥ भूम्यर्थ नृपाणां नयो विक्रमश्च न भूमित्यागाय ॥३|| बुद्धिपुढेन परं जेतुमशक्तः शस्त्रयुद्धमुपक्रमेत् ।।४|| न तथेषवः प्रभवन्ति यथा प्रज्ञावतां प्रज्ञा: ॥५॥ दृष्टेऽप्यर्थे संभवन्त्यपराषवो धनुष्मतोऽदृष्टमर्थ साधु साधयति प्रज्ञावान् ॥६॥ श्रूयते हि किल दूरस्थोऽपि माधवपिता कामन्दकीयप्रयोगेण माधवाय मालती साधयामास ||७|| प्रज्ञा ह्यमोघं शस्त्रं कुशलबुद्धीनाम् ॥८॥ प्रज्ञाहताः कुलिशहता इव न प्रादुर्भवन्ति भूमिभृतः ॥९॥ परैः स्वस्याभियोगमपश्यतो भयं नदीमपश्यत उपानपरित्यजनमिव ।।१०॥ अतितीक्ष्णो बलवानपि शरभ इव न चिरं नन्दति ॥११॥ प्रहरतोऽपसरतो वा रामे विनाशे वरं प्रहारो यत्र नैकान्तिको विनाशः ॥१२|| कुटिला हि गतिर्देवस्य मुमूर्षुमपि जीवयति जिजीविषु मारयति ।।१३।। दीपशिखायां पतंगबदेकान्तिके विनाशेऽविचारमपसरेत् ॥१४॥ जीवितसंभवे देवो देयात्कालबलम् ॥१५॥ वरमल्पमपि सारं बलं न भूयसी मुण्डमण्डली ॥१६॥ असारबलभङ्गः सारबलभङ्गं करोति ।।१७। नाप्रतिग्रहो युद्धमुपेयात् ॥१८॥ राजव्यजनं पुरस्कृत्य पश्चात्स्वाम्यधिष्ठितस्य सारवलस्य निवेशनं प्रतिग्रहः ।।१९॥ सप्रतिग्रहं बलं साधुयुद्धायोत्सहते ॥२०॥
नीतिवाक्यामृत में राजनीति
२४०