________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमः पार्वजिनेन्द्राय श्रीवीराय नमो नमः । सर्वतीर्थकराणां च गणेन्द्रभ्यो नमः सदा ॥ कृत्रिमाकृत्रिमेभ्यश्च सदनेभ्योऽर्हतां नमः । भुवनत्रयवर्तिभ्यः प्रतिबिम्बेभ्य एव च ॥ इत्थं कृत्वा स्तवं भक्त्या तौ प्रहृष्टतनुरुहो । प्रणेमतुः शिरोजानुकरस्पृष्टधरातलौ ॥ पूर्ववत्पुनरुत्थाय कायोत्सर्जनयोगतः । पुण्यं पंचगुरुस्तोत्रमुदरीरचतामिति ॥ अर्हद्भ्यः सर्वदा सर्वसिद्धेभ्यः सर्वभूमिषु । आचार्येभ्य उपाध्यायसाधुभ्यश्च नमो नमः ॥ परीत्य जिष्णुधिष्ण्यं तौ रथमारुह्य हारिणौ । प्रविष्टौ दंपती चंपां संपदा परया ततः ॥
-हरिवंशपुराण । परायत्तस्य सतः क्रियां कुर्वाणस्य कर्मक्षयो न घटते तस्मादामाधीनः सन् चैत्यादीन् प्रतिवन्दनार्थ गत्वा धौतपादस्त्रिप्रदक्षिणीकृत्य ईयापथकायोत्सर्ग कृत्वा प्रथममुपविश्यालोच्य चैत्यभतिकायोत्सर्ग करोमि इति विज्ञाप्य उत्थाय जिनचन्द्रदर्शनमात्राभिजनयनचन्द्रकान्तोषलविगलदानन्दाश्रुजलधारापूरपरिप्लावितपक्ष्मपुटोऽनादिभवदुर्लभभगवदर्हत्परमेश्वरपरमभट्टारकप्रतिबिंबदर्शनजनितहषोत्कर्शपुलकिततनुरतिभक्तिभराक्मतमस्तकन्यस्तहस्तकुशेशयकुड्मलो दण्डकद्वयस्यादावन्ते च प्राक्तनक्रमेण प्रवृत्य चैत्यस्तवनेन त्रिपरीत्य द्वितीयवारेऽप्युपविश्य आलोच्य पंचगुरुभक्तिकायोत्सर्ग करोमीति विज्ञाप्य उत्थाय पंचपरमेष्ठिन: स्तुत्वा तृतीयवारेऽप्युपविश्यालोचनीयः । एवमात्माधीनता प्रदक्षिणीकरणं त्रिवार निष्पन्नत्रयं चतुःशिरो द्वादशावर्तकमिति क्रियाकर्म पविध भवति ।
For Private And Personal Use Only