SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४० www.kobatirth.org क्रिया-कलापे -- Acharya Shri Kailassagarsuri Gyanmandir दीक्षा नक्षत्राणि प्रणम्य शिरसा वीरं जिनेन्द्रममलवतम् । दीक्षा ऋक्षाणि वक्ष्यन्ते सतां शुभफलाप्तये || १॥ भरण्युत्तरफाल्गुन्यौ मघा चित्रा - विशाखिकाः । पूर्वभाद्रपदा भानि रेवती मुनिदीक्षणे ॥२॥ रोहिणी चोत्तराषाढा उत्तराभाद्रपत्तथा । स्वातिः कृत्तिकया सार्धं वर्ज्यते मुनिदीक्षणे ||३|| अश्विनी - पूर्व फाल्गुन्यौ हस्तस्वात्यनुराधिकाः । मूलं तथोत्तराषाढा श्रवणः शतभिषक्तथा ||४|| उत्तराभाद्रपच्चापि दशेति विशदाशयाः । आर्यिकाणां व्रते योग्यान्युशन्ति शुभहेतवः ||५|| भरण्यां कृत्तिकायां च पुष्ये श्लेषार्द्रयोस्तथा । पुनर्वसौ च नो दद्युरार्यिकाव्रतमुत्तमाः || ६ || पूर्वभाद्रपदा मूलं धनिष्ठा च विशाखिका । श्रवणश्चैषु दीक्ष्यन्ते क्षुल्लकाः शल्यवर्जिताः ॥७॥ इति दीक्षानक्षत्रपटलम् । इति नैमित्तिकक्रियाप्रयोगविध्यध्यायश्चतुर्थः । समासोऽयं क्रियाकलापग्रंथः । १ - प्रशस्तानीत्यर्थः । २ - क्षुल्लिकानामपि । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy