________________
सरिविरचितः ] श्री मन्त्राधिराजकल्पः ।
श्री पार्श्वनाथवा श्वेताभरणां स्वकानि बिभ्राणा । भुजष्टुं नेत्रत्रयमन्तो धरवरशरीररुचि ॥ २६ ॥
क
पद्मावतीह देवी ध्यायन्ती तीर्थराजपदकमले । ध्यातव्या निजहृदये साधकवर्गेण सन्तुष्टा ॥ २७ ॥ युग्मम् ॥
सितवासो वसाने श्वेताभरणे च चामराढ्यकरे | विजयाजये च देव्यौ पक्षद्वितये ततश्चिन्त्ये ॥ २८ ॥
२६५
षोडशदलेषु षोडश विद्यादेव्यः स्थितास्तु परितोऽस्य । यक्षाः शासनदेव्यो नव ग्रहा लोकपालाश्च ॥ २९ ॥ एते चिन्त्याश्चेतसि धरणेन्द्रः फणसहस्रतः छत्रम् । बिभ्राणो जिनशिरसि स्फुटभक्तिव्यक्तिकश्चिन्त्यः ॥ ३० ॥ अब्धिरसौ(९४) गीर्वाणाः कुर्वाणाः पञ्चवर्णसुमवृष्टिम् । गजपतिकरधृतकल सैध्येयं च जिनेन्द्रमभिषिञ्चन् ॥ ३१ ॥ परितः स्थितोऽस्य वप्रो रत्नमयस्फुरितकिरणकपिशीर्षः । वज्रमयं तदुपरिगतमाच्छादनमत्र चिन्त्यं तु ॥ ३२ ॥
देदीप्यमानमूर्तिर्जिनवचनमनार्तिमाननुध्यायन् । करधृतवेलतोऽयं कुर्वाणो द्वारपालत्वम् ॥ ३३ ॥ कमठः शठतारहितो ध्यातव्यो दुरिततिमिर दिनभर्ता । कुमतक्षितिजकुठारो दर्शनपङ्केरुहैकपुष्पलिहः ॥ ३४ ॥
युग्मम् ।