________________
परिविरचितः] श्रीमन्त्राधिराजकल्पः ।
उत्तप्तहेमरुचिभदिलपूः सुजन्मा
श्रीशीतलोऽवतु जनं किल शीतशीलः ॥ ७८ ॥ श्रेयांस एष कलधौतसमो ह्यशीति
___ चापोच्चदेह इह गण्डकलाञ्छनस्तु । श्रीविष्णुभूमिपतिविष्णुवधूतनूजः
श्रेयांसि यच्छतु सुसिंहपुराधिजन्मा ॥ ७९ ॥ रक्तप्रभो महिषलाञ्छनलाञ्छिताङ्ग___श्चम्पाजनिस्त्वथ जयावसुपूज्यपुत्रः । यश्वापसप्ततितनुप्रमितिमतानि
श्रीवासुपूज्यजिन एष सतां ददातु ॥ ८०॥ श्यामाभवो ह्यवनिभृत्कृतवर्मपुत्रः
काम्पिल्यपत्तनजनिः कनकावदातः । कोदण्डषष्टितनुयष्टिरसौ वराह
लक्ष्मा ददातु विमलः कमलां जिनेशः ॥ ८१ ॥ श्येनाङ्कसिंहरथभूः कनकस्त्वयोध्या__जन्मा विनीतसुरसंस्तुतपादपमः । व्योमेषुकार्मुकतनुः सुयशातनूजो
दद्यादनन्तसुखमेष जिनस्त्वनन्तः ॥ ८२ ॥ वज्राङ्क ! रत्नपुरसम्भव ! हेमकान्ति
श्रीभानुभूपकुलदीपक ! सुव्रताभूः । पश्चाधिकार्मुकतनो ! जितमन्मथेश !
श्रीधर्मनाथ ! जय नाथ ! कृताधिनाथ ! ।। ८३ ॥