________________
सूरिविरचितम् ] श्रीस्तम्भनपार्श्वनाथस्तोत्रम् ।
न मत्समः कोऽपि परोऽस्ति दुःखी न दुःखहन्ता तु जिन ! त्वदन्यः। मया त्वदके निहितं शिरस्तत् तवोचितं यत् कुरु तन्ममाशु ॥९॥ त्वमेव तीर्थ मम देवता त्वं प्राणास्त्वमात्मापि मम त्वमेव । पुनः पुनर्विज्ञपयामि नाथ ! नीरोगतां यच्छ जगच्छरण्य ! ॥१०॥
इति स्तुतिः स्तम्भनपार्श्व ! नेत
श्वेतस्विचेतोऽर्थितदानदक्ष !। श्रीस्तम्भतीर्थाभरण ! प्रसद्य
भक्तस्य मे पूरय पूरयाशाम् ॥ ११ ॥
[२०] श्रीजयसागरविरचितं
यमकमयं श्रीपाश्वजिनस्तवनम् ।
योगात्मनां यो मधुरं धुरन्धुरं भिन्दानमेनः सकलं कलङ्कलम् वामेयमाहुस्सदयो दयोदयो मुदे स मेऽदभ्रमहामहामहा ॥
स्वोपज्ञावचूरिः।
_ नमो जिनाय । आत्मकृतं स्तवनमिदं व्याख्यायते
योगो-ज्ञानदर्शनचारित्रलक्षणः तत्प्रधान आत्मा येषां ते योगात्मानःसामान्यकेवलिनः तेषां मध्ये 'मधुर' मनोज्ञम् । 'धुरन्धुरं' मुख्यम् , तथा