________________
सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । तथाभव्यतादित्यकान्तिप्रयोग प्रबुद्धेषु विध्वस्तरागादिरोग !। सतां मानसाब्जेषु खेलन् सहेलं प्रभो ! भृङ्गसि श्यामलाङ्गोऽनुवेलम् ।। त्वदीयोरुमाहात्म्यवन्नाममन्त्रस्मृतेरयनन्ताद्भुतज्ञानसत्र ! । करिव्याघ्रसिंहोरगारातिभूतादिभीतिः क्षणात् क्षीयतेऽतिप्रभूता॥१७॥ भवापारवारां निधौ विश्वनेतर्महादुःखनीरेऽन्तरङ्गारिजेतः ! । नृणां मजतां तारगायोरुकाष्टं तरण्डायते शासनं ते गरिष्ठम् ।।१८॥ चरीकति तेऽची जनो यो वरिष्टां बरीभर्ति भक्तिं च चित्ते पटिष्ठाम् । नरीनर्ति कोतिर्जते तस्य कार्य सरोसात चाचिन्तितं सर्वमार्यम् ॥ प्रसर्पत्प्रभावस्य तेऽल्पस्वभावा विभो ! नैव साम्यं श्रयन्तेऽन्यदेवाः । प्रभाभ्राजमानस्य भानोः किमेता लभन्ते तुलां तारका अध्यनन्ताः ॥ स्वचित्तालवालप्रारूढा वरेण्यक्रियातोयारेग सिक्ता शरण्य !। तवाज्ञामहाकल्पवल्ली जनानां फलं पम्फलोटोप्सितैः सज्जनानाम् ॥२१॥ सदाचीचरद् देवराजैः स्वदास्यं तथाचीकरयो महेशेन लास्यम् । जनेऽवीवृतत् त्वामिहाज्ञां च कामं त्वमहेनजैप्रोस्तमप्याशु काम् ॥२२॥ विभो ! कल्पवृक्षोऽस्यभीष्टार्थदाने सुधाम्मोदसि क्षेमवल्लीविताने । दिनेशायसे भव्यराजीवचके.. ................॥ २३॥ अदीपिष्ट भूमौ भवानीश ! विश्वं स्वतोऽबोधि सज्ञानयोगेन विश्वम् । अपूरिष्ट कोया समस्तं त्रिलोकं तथाऽतायि सूक्ष्मेतरं जीवलोकम्।।२४॥
श्रीस्तम्मनाभरण ! पार्थ ! भवन्तमेवं
प्रातः स्तुते प्रतिदिनं घनवासनो यः । वश्याः श्रयन्ति भगवन् ! मनुजाधिराज
श्रोदेवसुन्दररमाशिवसम्पदस्तम् ॥ २५ ॥
-
-