SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना , नाम्ना गृहीतवानसौ दीक्षाम् विक्रमीयत्रयोविंशत्यधिकत्रयोदशशततमेऽब्दे ( १३२० ) उपाध्यायपदम्, अष्टाविंशत्यधिकत्रयोदशशत (१३२८ ) तमे संवत्सरे व्यभूषयत् सूरिपदम् विक्रमीयसप्तपञ्चाशदुत्तरत्रयोदशशत ( १३५७ ) तमे हायने च दिवं जगामेति पट्टावल्याबुल्लेखदर्शनाद् द्वयुत्तर त्रयोदशशत (१३०२ ) वर्षतो - नन्तरं सप्तविंशत्यधिक त्रयोदशततमाब्दतश्चाऽर्वाक् मध्यवर्ती श्रीमतः सत्तासमयः सुनिश्चित एव ॥ (२५) श्री सोमप्रभसूरिः । ( ६१ ) तपागच्छीयसप्तचत्वारिंशत्तमपट्ट विभूषकः श्रीधर्मघोषसूरिशिष्यशिरोवतंसः सूरिवरोऽयम् । वि. सं. १३१० वर्षे जन्म, सं. १३२१ वर्षे दीक्षा, सं. १३३२ वर्षे सूरिपदम्, सं. १३७३ वर्षे स्वर्गारोहणमस्य । अप्कायविराधना भयेन कोंङ्कणदेशे, शुद्धजलदौर्लभ्येन मरु-देशे च साधून विहारकरणं निषेधयामासासौ । कृतयोऽस्य - यतिजीतकल्पसूत्रम्, 'यत्राखिल' स्तुतयः, 'जिनेन येन' स्तुतयः, 'श्रीमच्छर्म' स्तोत्रम् | सं. १३५७ स्वगुरुश्रीधर्मघोषसूरिस्वर्गवासदिवस एव स्वस्याल्पमायुर्विज्ञाय न्यवीविशद् विमलप्रभं सूरिपदेऽसौ । Jain Education International शतार्थकाव्य - कुमारपालप्रतिबोध, सुमतिनाथचरित्र, सूक्तावल ( सिन्दूर प्रकर० ) प्रणेता श्रीसोमप्रभाचार्यस्त्वितो भिन्नः, श्रीविजयसिंहाचार्यशिष्यत्वात् । For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy