SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जैन स्तोत्र सन्दोहे एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं. मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥ ' विशेषेणास्मिन् काव्ये प्रशस्यमाने श्री सिद्धराजेन पृष्टः श्रीरामचन्द्रः ' चिन्त्यमेतत्' इत्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः । एतस्मिन् काव्ये सैन्यवाचको दलशब्दः, कमलशब्दस्य नित्यक्लीबत्वमिति दूषणद्वयं चिन्त्यम् । ततः सर्वानपि पण्डितानुरुध्य दलशब्दो राजसैन्यार्थे प्रमाणीकारितः । कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीवत्वं केन निणीर्यत इति पुंस्त्वं च धत्ते नवा ' इत्यक्षरभेदः कारितः । 19 ( अनेन कौमुदीमित्रागन्द - निर्भयभीमव्यायोगादिप्रस्तावनायां प्रबन्धशतकर्तुर्महाकवे रामचन्द्रस्य ' इति विशेषणमात्मनि प्रयोजयता स्वस्य प्रबन्धशतकर्तृत्वं प्रकटं पर्यचायि । किन्तु साम्प्रतं निम्नलिखिता एव प्रबन्धा दृग्गोचरीभवन्ति ૧ १ नलविलास नाटकम्' २ कौमुदी मित्राणन्दप्रकरणम् ३ मल्लिकामकरन्दप्रकरणम् * ४ सत्यहरिश्चन्द्रनाटकम् 6 ( ४६ ) ५ यादवाभ्युदयम् ६ राघवाभ्युदयम् * ७ रेघुविलासम् * ८ रोहिणीमृगाङ्कप्रकरणम्* १ गायकवाड ऑरयन्टल इन्स्टीस्युट ( वडोदरा ) द्वारा प्रसिद्धम् । २ भावनगरस्थया श्री आत्मानन्दसभया प्रकाशितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy