SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ १०३ विरचितवृत्तियुतम् ] पद्मावत्यष्टकम् | कुले !' चण्डा चासौ असिधारा च चण्डासिधारा, चञ्चन्ती चासौ चण्डासिधारा च तथा प्रहतं रिपुकुलं यया सा चञ्चच्चण्डासिधारा प्रहतरिपुकुला, तस्याः सम्वोधनं चञ्चच्चण्डासिधाराप्रहत रिपुकुले ! - देदीप्यमानप्रचण्डमण्डलाग्रधाराव्यापादितशत्रु समूहे ! । पुनरपि कीदृशे ? ' कुण्डलोद्धृष्टगल्ले !' कुण्डलाभ्यां उद्घृष्टौ गल्लौ - गण्डौ यस्याः सा तस्याः सम्बोधनं कुण्डलो - दु घृष्टगल्ले !–कर्णवेष्टको घृष्यमाणगण्डस्थले ! । पुनरपि कीदृशे ? श्रीँ श्री लूँ श्राँ स्मरन्ती' श्रा च श्री च च श्रौ च तानि स्मरन्ती-ध्यायन्ती । एतेषां पञ्चाक्षराणां यन्त्रं दर्शयन्नाह - 6 कमलवयूँ नामगर्भितस्य बाह्ये लमलवयूँ वेष्टयम्, बाह्ये षोडश स्वरान् लिखेत् बहिः अष्टदलेषु कं च छ ज ढ र भ सम्लवर्यू पिण्डाक्षराणि दातव्यानि । बहिरष्टदलेषु ब्रह्माणी, कुमारी, इन्द्राणी, माहेश्वरी, वा-राही, वैष्णवी, चामुण्डा, गान्धारी । ॐकारपूर्व मन्त्रमालिख्य तद्बाह्ये समलवर्यू हा हँ हा आ क्रो क्ली द्राँ द्राँ पद्मावती श्री श्रीँ थ्रु श्रीँ श्रीँ श्रः फट् स्वाहा । एषा विद्या अष्टोत्तरसहस्रप्रमाणं करजापेन क्रियमाणेन दश दिनपर्यन्ते सर्वकार्याणि सिध्यन्ति । पुनरपि कीदृशे ? 'मदगजगमने ! ' मदेनोपलक्षितो गजो मदगजः तद्वद् गमनं यस्याः सा तस्याः सम्बोधनं मदगजगमने ! ॥ साम्प्रतमुपसंहरन्नाह - दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यं लक्ष्मीसोभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलनाम् । पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात् देवी पद्मावतीतः प्रहसितवदना या स्तुता दानवेन्द्रैः || जनयति-- उत्पादयति । कासौ कर्त्री ? इयं देवी पद्मावती । कीदृशा ? 'प्रहसितवदना' प्रहृष्टानना । कस्मात् ! ' पार्श्वनाथप्रसादात् ' । या स्तुता । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy