________________
रचितवृत्तियुतम् ] पद्मावत्यष्टकम् ।
लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ते ! | ड्रा हूँ हूँ हूँ हरन्ती हरहरहरहुंकारभोमैकनादे !
♡
पद्मे ! पद्मासनस्थे ! अपनय दुरितं देवि ! देवेन्द्रवन्द्ये ! ॥ ६ ॥
व्यपनय - स्फेटय, किं तत् ? ' दुरितं ' विघ्नम् । कीदृशे ? ' लीलाव्यालोलनीलोत्पलदलनयने !' लीलया व्यालोल लीलाव्यालोलम्, नीलोत्पलस्य दलं नीलोत्पलदलम्, लीलाव्यालोलं च तत् नीलोत्पलदलं च लीला न्यालोलनीलोत्पलदलं तत्सदृशे नयने- नेत्रे यस्याः सा तस्याः सम्बोधनं लीलाव्यालोलनीलोत्पलदलनयने ! क्रीडाशोभमानेन्दीवरनयने ! । पुनः कीदृशे ? ‘प्रज्वलद्वाडवाग्नित्रुटयज्ज्वाला स्फुलिङ्गस्फुरदरुणकणोदप्रवज्राग्रहस्ते !" वाडवस्य अग्निः वाडवाग्निः प्रज्वलंश्चासौ वाडवाग्निश्च प्रज्वलद्वाडवाग्निः त्रुटयन्ती चासौ ज्वाला च त्रुट्यज्ज्वाला, प्रज्वलद्वाडवाग्नेस्त्रुट्यज्ज्वाला प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वाला, तस्याः स्फुलिङ्गाः तेषां स्फुरन्तश्च च अरुणकणाश्च तैरुदग्रं - प्रचण्डं यद् वज्रं तदमं हस्ते यस्याः सा प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ता, तस्याः सम्बोधनं प्रज्वलद्वाडवाग्नित्रुट्यज्ज्वालास्फुलिङ्गस्फुरदरुणकणोदग्रवज्राग्रहस्ते ! जाज्वल्यमानवाडवज्वलनज्वालाकलापसमानशतकोटिविभूषितहस्ताग्रे ! । पुनरपि कीदृशे ? रहरहरहुंकारभीमैकनादे ! । हाँ हाँ हाँ
9
C
हाँ
च हरन्ती च हरहर हरहुंकारं च हाँ ही हँ हाँ हरन्ती हरहरहरहुंकाराः तैः भीमो - भीषणं एकः - अद्वितीयो नादो यस्याः सा, सम्बोधनं हाँ० । सर्वायेतान्यक्षराणि मालामन्त्रयन्त्राणि सूचयन्ति । तद्यथा - ॐ नमो भगवति ! अवलोकितपद्मिनि ! हाँ हँ ह्री हँ ह्रः वराङ्गिनि ! चिन्तितपदार्थसाधिनि !
ँ
ू
दुष्टलोकोच्चाटिनि ! सर्वभूतवशङ्करी आँ को ही पद्मावति ! स्वाहा । ॐ नमो भगवति ! पद्मावति ! सप्तफणाविभूषिता चतुर्दशदंष्ट्राकराला
29
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org