________________
रचितवृत्तियुतम्]
पद्मावत्यष्टकम् ।
भृङ्गी काली कराली परिजनसहिते ! चण्डि ! चामुण्डि ! नित्ये ! क्षा क्षी यूँ क्षौं क्षणार्द्धक्षतरिपुनिवहे ! ही महामन्त्रवश्ये ! । ॐ ही ही , भङ्गसङ्गभ्रकुटिपुटतटत्रासितोदामदैत्ये !
ताँ स्री तूं सौ प्रचण्डे! स्तुतिशतमुखरे ! रक्ष मां देवि ! पद्मे !॥४॥
रक्ष-पालय ! देवि ! पद्मे !-पद्मावति ! । कम् ? ' माम् ' स्तुतिकर्तारम् , कीदृशे ? 'स्तुतिशतमुखरे!' स्तुतयः-श्रीपार्श्वनाथसम्बन्धिन्यः तासां शतानि तैर्मुखरा-वाचाटा, तस्याः सम्बोधनं स्तुतिशतमुखरे ! कीदृशे ? 'भृङ्गीकालीकरालीपरिजनसहिते !' भृङ्गी च काली च करालो च भृङ्गीकालीकराली , भृङ्गीकालीकरालीलक्षणः परिजनः तेन सहिता, तस्याः सम्बोधनं भृङ्गीकालीकरालीपरिजनसहिते ! । पुनः कीदृशे ? — चण्डिचामुण्डिनित्ये !' चण्डिश्च चामुण्डिश्च चण्डिचामुण्डी, चण्डिचामुण्डिभ्यां नित्ये ! -युक्ते ! चण्डिचामुण्डियुक्ते ! लोकप्रतीते ! ' पुनः कीदृशे ? क्षा चक्षी च च क्षौ च साक्षीतक्षौ एतैरक्षरैः, क्षणस्यार्द्ध क्षणार्द्ध तेन क्षणार्धन क्षता-हता रिपूणां निवहाः-समूहा यया सा तस्याः सम्बोधनं क्षा क्षी दूं क्षौ क्षणार्द्धक्षतरिपुनिवहे ! । पुनः कीदृशे ? ह्रीमहामन्त्रवश्ये !' हीलक्षणो यो महामन्त्रस्तस्माद् वश्या ह्रीमहामन्त्रवश्या, तस्याः सम्बोधनं ह्रीमहामन्त्रवश्ये ! नरनारीप्रभृतयः । पुनरपि कीदृशे ? ॐ ह्रीं ह्रीं घंभङ्गसङ्गभ्रकुटिपुटतटत्रासितोद्दामदैत्ये ! ।' ॐ धूं धूं धूं लक्षणो बृभङ्गः, ॐ ही घंभङ्गस्य सङ्गः, ॐ ही भङ्गसङ्ग !, ॐ ह्राँभङ्गसङ्गस्य भृकुटिः ॐ हो बृभङ्गसङ्गभृकुटिः, ॐ ह्रीभङ्गसङ्गभृकुटेः पुटतटः ॐ ह्री भृभङ्गसङ्गभृकुटिपुटतटः, त्रासिता उद्दामा दैत्या यया सा, तस्याः सम्बोधनं ॐ ही घूभङ्गसभृकुटिपुटतटत्रासितोद्दामदैत्ये ! -विकटकटाक्षोच्चाटितदुष्टासुरे ! । पुनरपि
१ डा झी झौ इति पाठान्तरे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org