SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) २ श्रावकधर्मप्रकरणप्रणेता श्रीजिनपतिसूरिशिष्यः 'सट्ठिसय नामप्रकरणविधातुर्मरुकोट्टनिवासिनो नेमिचन्द्रभाण्डागारिकस्य पुत्रों द्वितीयः । अस्य सं. १२४५ वर्षे सूरिपदम्, सं. १३३१ वर्षे स्वर्गमनं च खरतरगच्छीयपट्टावल्यादौ दर्शितम् । एतयोर्मध्यात् केन विरचितान्यत्र प्रकटीकृतानि.... स्तोत्राणीति न निर्णयः । जैनस्तोत्रसन्दोहे (१९) श्रीवादिदेवसूरिः । उपर्युक्तस्य श्रीमतो मुनिचन्द्रसूरेः शिष्यपुङ्गवोऽसौ । पूज्यपादस्यास्य सं. ११४३ वर्षे जन्मे, सं. ११५२ दीक्षा, सं. १९७४ सूरिपदम् १२२६ निर्वाणम् । गूर्जरेश्वर श्री सिद्धराजजगतीपति सदसि चतुरशीतिमहावादलब्धजयपताकं मदोद्धतं कुमुदैचन्द्रदिगम्बरेन्द्रं विजित्य स्वप्रतिभावैभवेन जयश्रियमशिश्रयत् पत्तने श्रीमान्, प्राणिनाय च प्रमाण-नयतत्त्वस्वरूपज्ञापकं चतुरशीतिसहस्न श्लोकसंख्याकं यथार्थनामक स्याद्वा १ उक्तं च प्रभावकचरित्रे शिखिवेदशिवे जन्म (११४३), दीक्षा युग्मशरेश्वरे ( ११५२) । वेदाश्वशङ्करे (११७४) वर्षे सूरित्वमभवत् प्रभोः ॥ २८६॥ रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि सङ्गते । कृष्णपक्षस्य सप्तम्यामपराण्हे गुरोर्दिने ॥ २८४॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ २८५॥ २ चन्द्राष्टशिववर्षेऽत्र वैशाखे पूर्णिमादिने । आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥१९३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy