SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ७७ घ परिशिष्टम् । श्रीपार्श्वदेवगणिविरचितवृत्तिविभूषितं श्रीपद्मावत्यष्टकम् । श्रीधर्ममूर्तिमरिगुरुभ्यो नमः प्राणिपत्य जिनं देवं श्रीपाच पुरुषोत्तमम् । पावत्यष्टकस्याहं वृत्तिं वक्ष्थे समासतः ॥ १॥ ननु किमिति भवद्भिर्मुनिभिः सद्भिः पद्मावत्यष्टकस्य वृत्तिर्विधीयते ? साऽविरतिः अतः कथं तस्याः सम्बन्धिनोऽष्टकस्य भवतां मुनीनां सतां वृत्तिः कर्तुं युज्यते ? । अत्रोत्तरमनुत्तरं वितरामः-यतः सा हि भगवतः सर्वज्ञस्य तीर्थकस्य सर्वोपद्रवरक्षणप्रवणस्य सकलकल्याणहेतोः श्रीपार्श्वनाथस्य शासनरक्षणकारिणी सर्वसत्वभयरक्षणपरायणा अवितथसम्यग्दर्शनयुक्ता जिनमन्दिररक्षाप्रवर्तिनी सर्वस्यापि त्रिभुवनोदरविवरवर्तिनो लोकस्य मानसानन्दविधायिनी अष्टचत्वारिंशत्सहस्रपरिवारसमन्विता एकावतारा श्रीपार्श्वनाथस्य चरणारविन्दसमराधिनी अतः कथमीदृशायाः पद्मावत्याः सम्बन्धिनोऽष्टकस्य वृत्तिं कुर्वतामस्माकं दूषणजालमारोप्यते वावदकेन भवता ? तस्मानात्र दोषः। . अथैवं वदिष्यति जञ्जपूकः सन् भवान् यदुत किमिति पूर्वाचार्यप्रणीतस्यास्य मन्त्रस्तोत्रस्य वृत्तिः क्रियते यतो भवतां प्रयोजनाभावात् ? अत्रोच्यते-प्रयोजनं हि त्रिविधम् प्रतिपादयन्ति परवादिकुञ्जरविदारणमृगेन्द्राः सहृदयाः, स्वप्रयोजनम् , परप्रयोजनम् , उभयप्रयोजनं च । तत्र स्वप्रयोजनं नववृत्तप्रमाणस्य लोकप्रसिद्धस्य अस्य मन्त्रस्तोत्रस्यार्थस्मरणलक्षणं विद्यते एव । तथा परप्रयोजनमपि विद्यत एव यतस्ते केचिद् भविष्यन्ति मन्दतमाः पाठका येषामस्या अपि वृत्तेः सकाशाद् बोधो भविष्यति । अत एव उभयप्रयोजनमपि सम्भवत्येव । तस्माद् वृत्तिकरणेऽस्माकं प्रयोजनं विद्यत एव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy