________________
प्रस्तावना।
(१५)
अन्यच्च
तिलकमञ्जर्या ४३ तः ४९ पर्यन्तेषु पद्येषु स्वस्वाश्रयदातु - जनृपतेः प्रभाववर्णनं । “ निःशेषवाङ्मयाविदोऽपि जिनागमोक्ताः,
श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतो
___ राज्ञः स्फुटाद्भुतरसा रचिता कथेयम् ॥” इत्यादि
कथोत्पत्तिकारणं च व्यावर्णितं दृश्यते तेन मुनस्यः भोजस्य च समकालीनत्वं पण्डितवर्यस्य । खोस्ताब्दतः ९७५ रूपः सत्ताकालः मुञ्जस्य, १०१८ तः १०६० पर्यन्तः श्रीभोजस्य । अपरञ्च
अथासौ गूर्जराधीशकोत्रिदेशशिरोमणिः । वादिवेतालविशदं शान्त्याचा माह्वयत् ॥ २०१॥
अशोधयदिमां चासावुत्सूत्रागां प्ररूपगात् ।
शब्दसाहित्यदोषास्तु सिद्सारस्वतेषु किम् ? ॥२०२॥ श्रीविक्रमसंवत्सरतो वर्षसहस्र गते सषण्णवतौ(१०९६) शुचिशितनवमीकुजकृत्तिकासु शान्तिप्रभोरभूदस्तम् ॥१३०॥
इति प्रभावकचरित्रोल्लेखात् वादिवैतालश्रीशान्तिमरेरपि समसमयत्वमस्य । श्रीशान्तिमूरेश्च प्रॉ. पिटर्सन.डॉ. भाण्डारकराद्यभिप्रायेण सं. १०९६ व स्वर्गवासः । .. एभिः कारणैर्विक्रमीयैकादशशताब्दीरूपः सत्ताकालः सुनिश्चित एवाऽस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org