SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सरिप्रणीतः ] चतुर्विंशतिजिनस्तवः वया जनसुहृद्रूपः पातु वो धारयन् क्षमाम् । भूरिभोगविरोचिष्णुरनन्तो विष्णुना श्रितः ॥ १४ ॥ पाठान्तरे मञ्जुलाङ्गलसच्छा यश्वन्द्रगौरसुरादृतः । जीयादनन्तः श्रीज्येष्ठो भीमतालोपलक्षितः ॥ १५ ॥ अवचूरिः । प्रधानाम् । प्रशस्यः सुहृत् सुहद्रूपः प्रशस्तार्थे रूपम् प्रत्ययः । ततः षष्ठीसमासः । क्षान्तिम् || अनेकभोगविमुखः । इन्द्रेण श्रितः । पक्षे - प्रधानाञ्जनसमानरूपः । ननु सित्ततरका न्तित्वात् शेषनागराजस्य इदं विशेषणमनुपपन्नम् । नैवम् । सितत्वेनाऽसितत्वेन च तस्य द्विधापि शास्त्रे प्रसिद्धत्वात् । कथमेतद् ? इत्युच्यते ' स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छन: ' ( अभि. कां. ४, श्लो. ३७४ ) इति निघण्टुवचनप्रामाण्यात् इति । पृथिवीम् । अनेक फण विराजमानः । शेषाहि: नारायणेन श्रितः तत्पृष्ठशायित्वात् तस्यैवमुक्तिः | १४ || ( २२१ ) मञ्जुला• मनोरमाऽङ्गस्य लसन्ती छाया कान्तिर्यस्य । नन्वेव भगवतः कान्तेः शोभनत्वमवगतम् सामान्येन । परं अर्हतां पञ्चवर्णसम्भवेन च वर्णविशेषावगतिः । इत्याह 'चन्द्रगौर' इति 'चन्द्रौ स्वर्णकर्पूरौ' ) इति वचनात् चन्द्रगौरः - कनककान्तिरित्यर्थः देवाश्रित:- कमलाप्रधानः रौद्रताभावराजितः । पक्षे चारुहलसशोभः अवदातगौरशुभ्र वलक्षधवलार्जुनाः ' एकार्थाः (अभि. का. ६ श्लो. २९) इतिवचनात् चन्द्र इव गौरः सित: - श्वेतवर्ण इत्यर्थः । मदिरासक्तः प्रियमधुत्वात् तस्य । बलभद्रः - कृष्णाग्रजत्वात् श्रियो ज्येष्ठः भीमो यस्तालः स ध्वजे यस्य स तथा ।। १५ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy